पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ कर्मातिनीतचिकित्सिताप्यायः।] एस्यां । १६१ तद्यथा-काकादंनानीलीक्षिपीलुककालालाङ्गलकीशुकनासानाँ भक्षणात्, भल्लातकफलानाँ सविषकवलकुवलपल्लवोपयोगात्, सविषवल्लीतृणगुल्मपत्रलताग्रतांनभक्षणाद्वा, अथवा सविषोरगकीटर्सस्पर्शनात्, तल्लालाञ्चासमूत्रपुरीषेोपहत(*तृणानां परिचारकाज्ञानेन भोजनाद्वा, नानाविधकीटसंस्पर्शदोषोपहत)प्रेंस्थानविधिभिः परिचारकाज्ञानादभोजनाद्वा । स विवर्णः पक्षीयमाणबलज्ञवशरीरः श्वासी विजृम्भते, आध्मायते,३पूयते, च विह्वलति स्तब्धशूनपकर्जिह्वोष्ठस्रक्ताम्राक्षः परिशूनान्तनयनः श्लेष्मप्रसेकवान्, तस्य प्राक्छार्दै:प्रवर्तनात्प्रजायते शोकश्व । स दुश्चिकित्स्यो भवति । कोऽस्य हेतुः-शोषच्छर्दिषी मुंदू चिकित्स्ये भवतः । विपरीते अन्यथा ॥ अतः संस्निग्धमधुरकषायैः कवलकुवलयवसोपचारेरुपचरेद्भिषक् । अपि चपिप्पलीशृङ्गबेररोधाम्बष्ठाभियङ्कपथकसमङ्गधातकीपुष्पाशोकरोहिणीकसेरुकाश्चक्षोयित्वा मधुना संयोज्य (*कवलान्भोजयेत् । तन्दुलीयकमूलाधारग्वधशिरीपोरुबूकजीवन्तिकानि च क्षेोदयित्वा मधुना संयोज्य) कवलान्दद्यात् । श्लेष्मान्तकारग्वधत्वङ्मूलफलपुष्पपत्राणि तन्दुलीपकमूलारग्वधोदुम्बराणा निष्कार्थ तन्दुलोदकसंयुक्त पायपेत् । सल्लकी च मुस्ताञ्चनोशीरचन्दनेगेंमयसंयुक्तैः प्रलेपा, गोमयेन च । कुटजफलहरिद्रानकमालसप्तपर्णपिप्पलीसर्षपमुगन्धार्धभागयुक्तानि चूर्ण कृत्वा मुखं संमार्जयेत् । पुक्षन्यग्रोधाश्वत्थकर्णिकारशल्लकीनां पल्लवानि भोजयेत् । अनुक्तानामप्येवंप्रकाराणां वृक्षपत्रभङ्गान्भोजयेत् । तुणशोषिप्रशमनार्थ भोजनं शाल्योदनं मुद्रयूषेण घृतस्रिग्धेन रसेन वा दद्यात् ॥ तत्र श्लोक: उत्पद्यमानमेवाssदी तृणशोषिणमुद्धरेत् । सोपद्रवोऽतिहृद्धो द्दि दुश्चुिकित्स्यतमो भवेत् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चतुर्थ स्तृणशोषी नामाध्यायः ॥ ४ ॥ . अथ पञ्चमोऽध्यायः ।। अथातः कमॉतिनीतचिकित्सितमध्यायं व्याख्यास्यामः । " धनुराकारमध्यस्थः पाठो नैव कपुस्तके । f धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके । १ क. *दनीनीलाक्षेिपालु° ॥ २ क. °तापभ° । ३ ख. मृदुचि° । ጓፄ -