पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/171

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० पालकाप्यमुनिविरचितो- : [२ इक्रोगत्पिने यद्येवं स सुखी न स्यादिइमन्यत्समाचरेत् ॥ शृङ्गवेरं प्रतिविषा पिप्पली कटुरोहिणी ॥ २७ ॥ संर्मभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ॥ प्रसन्नयाऽतिसंयोज्य इार्कराचूर्णसंयुतम् ॥ २८ ॥ देयमेतत्प्रतीपानं क्षिप्रमेव,सुखी भवेत् ॥ वातानुलोमनं हेतद्रक्तपित्तमसादनम् ॥ २९ ॥ श्लेष्मप्रसादनं चैव विशुद्धं तु प्रमेहति ॥ कषायं क्षीरवृक्षाणां भोजयेद्वारणं ततः ॥ ३० ॥ पिशितेन शशानां च वेसवारं प्रकल्पयेत् ॥ हस्तश्रवणवालैश्च यदा व्यजति वारणः ॥ ३१ ॥ ततोऽस्मै भोजनं दद्याद्धितं माणाय बृंहणम् ॥ लावतित्तिरिमांसानि साधयेत्तण्डुलोदके ॥ ३२ ॥ ततो रसमवश्रा(स्रा)व्य धूपयेद्घृतमात्रया ॥ पिप्पलीशृङ्गवेरेण प्रसन्नां मरिचैर्युतांम् ॥ ३३ ॥ दाडिमीफलसारेण सौवर्चलसमन्वितम् ॥ संयुक्तं लवणं कृत्वा रसमस्मै प्रदापयेत् ॥ ३४ ॥ शालीनां च पुराणानां षष्टिकानामथैोदनम् ॥ भोजयेत्तं यथाकालं तथा स लभते मुखम् ॥ ३५ ॥ अथाssसवादिमद्यं च तद्दिपं प्रेतिपाययेत् ॥ इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ३६ ॥ ११२१ ॥ 'इति श्रीपालकाप्ये गजायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने मदनजग्धको नाम तृतीयोध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः ।। अथाङ्गाधिपतिरभिवाद्योवाच भगवन्तं पालकाप्यम्-‘भगवन्यः प्राक्संग्रह्णे दृष्टस्तृणशोषी नाम व्याधिः, स कथं भवति, कथं स साध्यते ॥ ततः मोवाच भमवान्पालकाप्यः-इह खलु भो(स्) नॄणशोषी नाम संभवति कक्षस्य मन्दाप्रेर्गहिँतयवसोपयोगात्, वाहितानामतिमात्रोपयोगात् । १ क. प्रतिपादयेत् ।