पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/170

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मदनजग्धकाध्यायः ] हस्त्यायुर्वेदः । । १५९ एवं क्रियासमाक्रान्तो येचानार्हो न शाम्यति ॥ दधिमण्डमुशीरं च पिष्ट्रा गौरांश्च सर्षेपान् ॥ १२ ॥ तेनेिस्वहस्तु दातव्यो योऽवगाह्नः प्रवर्तकः ॥ शकृच्छुद्धी निस्रहेण हैीतो बस्तिरनन्तरम् ॥ १३ ॥ पयो घृतं समधुकं क्षौद्रेण सह संसृजेत् ॥ ततोSस्मै दापयेद्धरिंतः कोष्ठनिर्वापणं हितम् ॥ ॥ १४ ॥ बदराण्यथ संक्षुद्य शार्कराचूर्णेसंयुतम् । तमस्मै दापपेपिण्डमजाजीमरिचैयुँतम्। । १५ ।। निर्वाणमेवं लभते मूर्छा चास्योपशाम्यति ॥ तस्मादनन्तरमिमान्कवलान्दापयेद्भिषक् ॥ १६ ॥ आम्रातकांस्तिन्तिडीकं कपित्थानां शिलाटुकम् ॥ उदूखले क्षेोदयित्वा शर्कराचूर्णसंयुतान् ॥ १७ ॥ तेनास्य मूर्छा श्वासश्च पिपासा चोपशाम्यति । हिङ्गुना सह संक्षुच मातुलुङ्गं सदाडिमम् ॥ १८ ॥ तस्मै प्रदापयेत्पिण्डं शार्करामधुसंयुतम् ॥ तेनाssध्मौनं पिपासा च वेपथुश्चोपशाम्यति ॥ १९ ॥ पियालार्जुनबीजानि द्राक्षासूतफलानि च ॥ आम्रातकं मातुलुङ्गं लकुचं पनसानि च ॥ २० ॥ उत्तरोदकयुक्तानि संक्षुण्णानि उदूरवले ॥ शर्कराचूर्णसंसृष्टं पिप्पलीमरिचैर्युतम् ॥ २१ ॥ तस्मै प्रदापयेत्पिण्डं तदा स लभते सुखम् ॥ पघेवं स सुखी न स्यादिदमन्यत्समाचरेत् ॥ २२ ॥ खर्जूराण्यपनीपानि कुठ्यांत्पारापतैः सह ॥ तमस्मै दृापयेत्पिण्डे शार्केराचूर्णसंयुतम् ॥ २३ ॥ सुमना भवति झेष आरोग्यं च नियच्छति'॥ यद्वा मनःस्थितः स्वस्थः कर्णवालकरो भवेत् ॥ २४ ॥ मसन्नचक्षुराह्वारं यथावभिनन्दति । ततोऽस्मे मदिरा देया तरुणा दोषवर्जिता ।। २५ ।। शर्कराचूर्णसंसृष्टा विधिवत्प्रतिपानिका ॥ पञ्चभिर्लवणैर्युक्ता पतिपानं विपश्चिताम् ॥ २६ ॥ १ क. यथाना° ॥ २ क. शीघ्रं ॥ १ क. °मेव ल” ॥ ४ क. °ध्मानपिपासे च ।