पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/165

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ पालकाप्यमुनिविराचेतो– [२ क्षुद्ररोगस्थाने एतेनैव च चूर्णेन पिण्डंमस्मै प्रदापयेत् ॥ वमथौ विषसंस्रष्ठे श्रेष्ठमेतद्धि भेषजम् ॥ २८ ॥ निर्विषं वमथुं चैनं योगेरेभिरुपाचरेत् ॥ शालिलेाश्वररुजानां सूक्ष्मचूर्णानि कारयेत् ॥ २९ ॥ सक्षौद्रं भोजयेत्पिण्डं युक्त त्रिकटुकेन च ॥ नागस्य वमथुः क्षिप्रं पिण्डेनानेन शाम्यति ॥ ३० ॥ पटोलों काचमाचीं च मुद्वैः सह विपाचयेत् ॥ सतैललवणं यूषं पाययेद्भोजयेद्धि तम् ॥ ३१ ॥ सारिवां शृङ्गवेरं च द्वे सहे रोधमेव तु । निण्डुं चैव सक्षौद्रान्कबलान्भोजपेद्भिषक् ॥ ३२ ॥ तरुणान्याम्रपत्राणि दृधित्थं दाडिमानि च ॥ नीपानि मातुलुङ्गं च लकुचे यवसानि च ॥ ३३ ॥ उदूखले क्षोदयित्वा वारणाय प्रदापयेत् ॥ वमथुः कवलैरेभिः क्षिमं नागस्य शाम्यति ॥ ३४ ॥ , तिन्दुकानि प्रियालानि मृद्वीका विश्वभेषजम् ॥ पारावतः श्वेतपाकी सोर्वीरं बदराणि च ॥ ३५ ॥ एतत्संक्षुद्य कवलं मधुयुक्तं विचक्षणः । छर्दिमशमनं हृद्यं द्विरदाय यदापयेत् ॥ ३६ ॥ स्थूलानिश्रुद्विधा भित्त्वा विडङ्गेस्तान्यलेपयेत् । संवेष्टय दर्भेश्वाङ्गारेरधूमैस्तान्विपाचयेत् ॥ ३७ ॥ पक्कांस्तान्विधिवच्छीतान्संवेष्टय कवलान्भिषकू ॥ दापयेन्मधुसंयुक्तान्हृद्यान्वमथुनाशनान् ॥ ३८ ॥ हरिद्रामश्वकर्णे तु चतुर्णौ क्षीरिणां त्वचः ॥ सोमवल्ककषायांश्च मधुना सह योजितान् ॥ ३९ ॥ कवलान्भोजितो नागो वमथुं मतिबाधते ॥ उशीरं त्रिकटून्मिश्रं पाययेच चिरस्थितम् ॥ ४० ॥ शिस्वितित्तिरिभिलौवैरथवाऽपि कपेिश्नलैः ॥ पिप्पलीमरिचैर्युक्तं कटुकं कारयेद्रसम् ॥ ४१ ॥ अनेन भोजपेन्नागं पुराणं षष्ठिकौनिम् ॥ यवसानि कषायाणि कवलं पल्लवानि च ॥ ४२ ॥ १ क. १लाश्चर्” ।