पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/163

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ पालकाप्यमुनिविरचितो- [२क्षुद्ररोगस्थानेअथातः क्षुद्ररोगस्थानं द्वितीयमारभ्यते । अथ वमथुरोगाध्यायं व्याख्यास्यामः ॥ अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति ॥ वारणानां वमथवः संभवन्ति कथं मुने ॥ १ ॥ साध्यासाध्यं चिकित्सां च'लक्षणं तद्रवीहि मे ॥ एवं पृष्ठोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ९ ॥ वमथुर्द्विविधो ज्ञेयो दोषैरागन्तुरेव च ॥ भवेदामाशयस्थानात्सर्वा छर्दिनैराधिप ॥ ३ ॥ हृदये पार्श्वयोः कुक्षेो पीडा वातेन जायते ॥ फेनिलं छर्देश्यत्यातॊ नीलं ३योविं च भूरि च ॥ ४ ॥ आादो विरेचनं कार्येमस्य लङ्घनमेव च ॥ अधोभागीकृते दोषे छर्दिराथु निवर्तते ॥ ५ ॥ मधुना ह्यभयाचूर्ण भाजयच्छर्दिनाशनंम् ॥ 奪 मुन्निग्धैर्जाङ्गलरसैः कौलत्थैश्चैव भोजयेत् ॥ ६ ॥ अनेन विधिना राजंश्छर्दिर्नश्यति वातिकी ॥ (*अम्लमुष्णं च नीलं च हरितं पीतकं तथा ॥ ७ |) पित्तात्पच्छर्दंपत्यार्तो मुहुर्भवति दुर्मनाः । दाहोऽस्य हृदये कण्ठे शरीरे चोपजायते ॥ ८ ॥ चैन्दनामलकानां च रसं क्षौद्रेण पाययेत् ॥ पिप्पलीचूर्णमुद्रं च मधुना सह भोजयेत् ॥ ९ ॥ जम्बूप्रवालमरिचं यष्टयाहूं नीलमुत्पलम् || क्षोदयित्वा कषायं च शैीतलं पाययेद्गजम् ॥ १० ॥ शर्कराधातकीचूर्ण तथा यष्ठयाह्वमुद्गयोः ॥ समालीड्याथ मातङ्गं पाययेत्तन्दुलाम्बुना ॥ ११ ॥ सहृल्लासं घनं श्वेतं कफाद्वमति पिच्छिलम् ॥ हृष्टरोमा सलवंगं क्षौद्रेण सह् भोजयेत् ॥ १२ ॥ ( 'सव्योषं त्रिफलाचूर्ण क्षौद्रेण सह भोजयेत् ।) ° धनुराकारमध्यस्थः पाठो नाति कपुस्तके । ' धनुराकारमध्यस्थः पाठो नैक् खपुस्तके ॥ १ क. श्यामं ॥ २ क. नन्दना° । ३ क. °णं शीतविद्वेष्टिभेोजनम् । स° ।