पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/161

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने तत्र वातात्परुषाः इयावाः, पित्ताद्धरितनीलपीता:, कफाच्छ्रेता:, शोणिताद्रक्तारुणाः, संनिपाताद्भहृविधवणोः शबला वा राजिमन्तो भवन्ति ॥ तत्र नीलासितपीतारुणहरितरक्तान चिकित्सा नास्ति । सप्तर्रात्रस्थितैः कुपिभिः श्वेतोपलवद्ाक्षि भवति, तदृप्यसाध्यम्। परिशिष्ठानामस्ति चिकित्सा ॥ मुञ्जजालेऽपि मुञ्जविधिः कार्यः । क्षीरधिपळलसिन्दुवारमूलकबीजामलककालिकानिर्गुण्डीरोहेि तकमत्स्यॆः कथितॆः । मुस्वोष्णैर्घृतमण्डाभ्यक्तं हिार: झलिम्पेत् । मधुसंसृष्ट तन्दुलोदर्क पाययेत् । हरेणुकैलामेषशृङ्गीरोधागुरुदेवदारुचेतापिप्पलीभिरामलकरससंयुक्ताभिर्धृतर्मण्डं विपाच्य नस्यं तर्पणं च नेत्रयोः कुर्यात् । (%मेषशृङ्गीचेतपाकीतगरहरेणुकाशियुनीलिकागिरिकर्णिकाञ्चलिकारिकाचेताश्यामामूलानि सलिलेन पिष्ट्राsञ्जर्न कुर्यात् ।) हरिद्राद्वयनिम्बपत्रमञ्जिष्ठाहरितालमनःशिलामाषपणोंभिस्तेलं पक्त्वा नस्यं दद्यात् । मधुकमधूच्छिष्टरोधमञ्जिष्ठामनःशिलाजतुकुकुटमेदोभिः पानार्थ धूपः कार्यः । लथुनाञ्जनपिप्पलीफणिजकरसकांस्यनील्यामलकरसगोपितैर्यथासंख्यं पृथक्पृथक्पिष्ट्रा कृमिनाशनमञ्जनमेिति । do तत्र श्लोकः-- इमं विधिं विधिज्ञस्तु यः.कुर्यात्मुसमाहितः ॥ यथासाधु समुद्दिष्टं मुञ्जजालास्स मांचपेत् । इति मुञ्जज्ञाल: ॥ उष्णाम्लुलवणकटुकगुरुरुक्षात्रभोजनादतिव्यायामाच भवति रुधिरं कुपतम्, तदाऽनिलावधूतमूर्धवहाः सिराः पपन्नं निरुणद्धि चक्षुः । तेनास्य नयने राज्पः सपरिश्रा(स्रा)वा भवन्ति । शूनवर्त्मनी चाक्षिणी भवतः । ते ‘लोहिताक्षम्' इत्याचक्षते गजस्य नयनविकारम् ॥ तस्य साधनम्-लोधमधुकमर्पौण्डरीककलैकैः समस्तैरेवाssश्वोतनम् । अञ्जनं मधुघृताभ्यां कारयेत् ।। घृतमण्डेन नस्यं कुर्यात् । स्थानं छशीतलम् । वारिपूणांश्च घटाः शिरसि बंशे च परिश्रा(स्रा)याः । इति ॥ तत्र श्लोकः-- घृतपानैस्तथाऽभ्यङ्गैः स्निग्धैश्च रसभोजनैः । पवसैमैधुरैश्चैव लोहिताक्षं मसाधयेत् ॥ इति लोहिताक्षः ॥ * ‘धनुराकारमध्यस्थः पाठो नैव कपुस्तके ॥ १ ख. "रात्रिस्थि° । ९ ख. °निलविधू ।