पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/160

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ नेत्ररोगाध्यायः ] । इस्ल्यायुर्वेदः । १४९ अथ यदाऽत्यर्थगुरुभोजनात्प्रवृद्धश्लेष्मा मारुतोद्धूंत ऊध्र्व तमादाय नेत्रानुसारगतिभिः शिराभिरनुनीतः श्वेतस्रुनाकूतिना सूक्ष्मेण कृमिणा नयनमाहृतं करोति । तदा ‘मुञ्जः' इत्युच्यते कफकृतो व्याधिः ॥ तस्य लक्षणम्-वेदना श्वयथू रक्तताम्रश्रा(स्रा)वंो नेत्रस्याप्रतिक्रियया चेतभावः । प्रथमे पटले विचरल्लक्ष्यते-सूत्रमन्तर्मणिगतमिव व्यक्ताव्यक्तोऽनवस्थितः । द्वितीये पटले नातिविचारी स्थूलतरः । तृतीये पटले रैक्तासितहारिद्राणां वर्णानामन्यतमं भजतेऽसाध्यः । चतुर्थे पटले गते मुझे दह्यते नयनमग्निपरिगतवत्ताम्रराजिभिरावृतं भवति । प्रायशः सर्वेषामेव चतुष्पदानां दृष्टिहरः । न शक्नादृतेऽस्य सिद्धिरस्ति । तस्य गात्रापरपरिक्षिप्तस्यालानितस्य दन्तोदान्त्यं निगृहीतस्यापयामितस्य नयनं बिडिशैौर्ववत्थॆ व्रीहिमुखेन इात्रेण सूत्रवेष्टितेन तिलमात्रावशिष्ठेनार्धेपवविस्तारेण दृष्टिभागं वर्जयित्वाऽपाङ्गभागस्थं सूत्रवचलितं कृमेिं संचरन्तमभितः मथमत एव विध्येत् ।। र्पक्ष्माणि वा विशति । शत्रं वाऽप्यनुवेद्धति, मुखं वा । भजति किँचिदुपहृतम् । बडिशेनोद्धरेन्मुञ्चम् । सम्पग्विद्धमेव विद्यात् । (%ततस्तमुष्णोदृकपूर्णे सुवर्णपात्रे प्रक्षिप्य संचरन्तं राज्ञो दर्शयेत् । सप्तरात्रादूर्ध्वं दृष्टिद्रवं पिबति च, तमसाध्यं विद्यात् । ) क्षते शास्त्रविधो बहुशः परिषेचयेन्नयनमासवेन मधुना । पन्नयुक्तमाच्छाद्य मुखं वाससा निवातस्थं स्नेहपानैर्धूपनैश्चोपक्रमेत् । सजॉर्जुनकदम्बपुष्पहिङ्गुसर्वगन्धसर्जरसैर्वृतसंयुक्तैर्धूपयेत् । यथाक्रमं मधुपर्णीतेलपर्णीष्वथक्पर्णीभिस्तैर्छ पक्त्वा प्रातः स्नेहं भोजयेत् । एनं च पैापयेत् । शिरश्वास्य शृंतेनैव स्नेहेनावसिञ्चत् । गिरिकर्णिकामूलj१प्पलीसैन्धवैः पिष्टैमेधुसंयुतैरञ्जयेत् । तत्र श्लोक:- 尊 विधिना नेत्रमुझे तु क्रियाभिः समुपाचरेत् । क्षिप्रं प्रमुच्यते रोगात्प्रकृतिस्थश्च जापते ॥ इति मुञ्जः । अथ पैदा गजनयनमुपहतमतीव कफपवनपित्तानामन्यतमेन दोषेण सर्वेर्वा विविधवर्णैः शबलैव सितासितनीलपीतरक्तारुणैर्वा कृमिभिश्चितम्, तदा ‘मुञ्जजाल’ इत्युच्यते ॥ ** ' 'दन्तोपान्तं' इति भवेत् ।। * धनुराकारमध्यस्थः पाठः कपुस्तके न । १ क. "दूतमा° । २ क. रक्तसि° । ३ क. यक्ष्माणि ॥ ४ क. पाचयेत् । १ क. ख. सृतेनैव । ६ क. यथा ।