पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/158

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ नेत्ररोगाध्यायः ] । हस्त्यायुर्वेदः । ২৪৩ सुमसारिवामधुकचन्दृनैः क्षीरसिद्धं घृतं नेत्रयोस्तर्पणं नस्यं च सम्यग्दृद्यात् । अयस्ताम्ररजतकनकमधुकस्फटिकतरुणोदुम्बरकतकामलकमधुसर्पिर्भिरञ्जयेत् । पयसा च परिषेक: । इति ॥ तन्न लोक: योगमानेन यः कुर्यात्परिषेकाञ्जनादिकम् । नस्याञ्जनक्रियां वैद्य:'स श्रो(स्रो)तोन्धं निवर्तपेत् ॥ इति श्री(स्रो)तोन्धः । स्रिग्धमधुरगुरुशिशिरगुडदधितिलपललमत्स्यमांसभोजनादव्यापामाच्च कफः पद्वृद्धिमाप्नोति । स नेत्रयोरापन्नः पिटिकाभिराञ्छृणोति वर्त्मनी जलबुद्बुदाकाराभिः, तं ‘बुद्बुदी' इत्याचक्ष्महे विकारम् ॥ तस्य भेषज्यम्-प्रावारक्युक्तेन विधानेन यन्त्रयित्वा तथैव विडिशेन नेत्रं विवत् मार्कवरसेन बुद्बुदमाश्चोत्पाभीक्ष्णशः शत्रेण च्छेपेित् । ततः प्रपौण्डरीकमधुकचन्दनेोशीरशीतशिवागुरुकालार्नुसापांसुनिषष्णकैर्वा पकं घृतं नस्पं दद्यात् । तर्पण च नेत्रयोः समुद्रफेनशङ्घनाभिशर्कराभिर्मन:शिलायुक्ताभिरक्षयेत् । तत्र श्लोक:- 灘 इत्येष बुष्टुदी नाम य एनं साधयेद्भिषक् । शान्नोद्दिष्टेन विधिना स भवेत्साधुपूजित: ॥ इति बुटुर्दीं ॥ अथ यदाऽत्पर्थ रुक्षाहारो जाङ्गलयवसोपसेवी, उष्णेsध्वानमभिप्रपद्यते । तदाऽस्य वायुरुध्र्वगतः श्लेष्मपित्तशोणितान्यादायाक्ष्णोर्वेदनामत्यर्थं करोति ॥ न च पवसमभिलषति, तम् ‘अक्षिपाकम्' इत्याहुः । तद्यदि शोणितं पूयं वा श्र(स्र)वति, तस्य तदा सिद्धिर्न विद्यते । विपर्यये तु शुद्धजलश्रावी(स्रावि) साध्यम् ॥ * 蠟 । अथास्य निवातस्थस्य क्रियारम्भः कर्तव्यः । ततोऽस्य मञ्जिष्ठां विश्वभेषजं रोहिणीं च पिष्ट्वा तैलं विपाच्यते । तेन तैलेन नस्यकर्म कुर्यात् । तस्य पप्पलीसैन्धवश्यामाककुलत्थहरेणुकैलारोधागरुचन्दनानि सयभागानि पृप्रसा संयोज्य सर्पिः पाचयेत् । तेनास्य तर्पणं नस्यकर्म च कुर्यात् । तस्य पिप्पलीसैन्धवश्पामाककुलत्थादीनि समभागानि पिष्ट्वा मधुसर्पिषा युक्तमेतद्दद्याद्अॅनम् ॥ १ क. विडशैर्नेत्रं । २ क. °नुकार्या” । ६ क. “कैश्वाप° ।