सामग्री पर जाएँ

पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/15

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ १ महारोगस्थाने
पालकाप्यमुनिविरचितो–

आसनेस्काञ्चने र्दिव्ये नानारत्नविभूषिते ॥
उपविष्ठो महीपालः मजाञ्छुस्वंहिते रतः ॥ ८ ॥
तपसा भावितात्मा वै राजा राजीवलोचनः ॥

(अङ्गानाम् इत्याचेकान्वयम्)


गङ्गाया दक्षिणे तीरे ब्रह्मर्षिगणसेविते ॥ ९ ॥
स्वंगीरोहणसोपानकृततीर्थकृतापहे[] (?) ॥
मातेव मुक्तिजनूने पदन्यासकृताश्रमे[] ॥ १० ॥
शालतालतमालैश्च[] मियाळेर्वञ्जुलैश्चिते ।
पुंनागाशोकबकुलैर्भूषिते चारुचुम्पकैः ॥ ११ ॥
सह्वकारार्जुनाश्वत्थवरामलकजम्बुभिः ।
कदम्बोदुम्बरप्लक्षेनोनाद्वृक्षैश्च शोभिते ।। १२ ।।
कमलोत्पलकह्लारपुष्पगन्धाधिवासिते ।
शुककोकिलसारीभिः कोककेकारवै रुते ॥ १३ ॥
३ीतमन्दसुगन्धेन मारुतेनोपसंस्कृते ॥
यक्षगन्धर्वनिलये सिद्धचारणसेविते ॥ १४ ॥
सवैलक्षणसंपन्नं सर्वेविद्यामृशोभितम् ।
धर्मार्थज्ञानतत्त्वज्ञं तथां शक्रोपमं वपम् ॥ १५ ॥
चन्दनागुरुकर्पूरदिग्धाङ्गाभिः सुकेशिभिः ।
दिव्याभरणभूषाभिमानिनीभिश्च मोद्वितम् ॥ १६ ॥
पीनोन्नतस्तनभरक्षामाङ्गीभिर्मृगाक्षिभिः”(?) ।
मुकङ्कणरवोपेतैर्वीज्यमानं तु चामरैः ॥ १७ ॥
महाबला महाकाया कुञ्जरा वनचारिणः ॥
कथं वक्ष्या भवन्त्येते[] चिन्तपन्तं मुहुर्मुहुः ॥ १८ ॥
इतिहासकथा: काव्यं श्रोष्यमाणं मनोरमम् । ।
श्रिंतं[] मुरगुरुपख्यै:[] पुरोधोभिश्च मन्त्रिभिः ।। १९ ।।
मुखासीनं तु तत्रस्थं पौरजानपदैः सह ।
मेरिता भाविविधिन[] व्याभरणभूषिताः ॥ २० ॥
जठामुकुटधतो रो मोक्षद्वारपथानुगाः ॥
कन्दमूलफलाहाराः कौपीनवसनादृताः ॥ २१ ॥


  1. ग. °तीर्थे कृ°।
  2. ग. °श्रमः ॥ १० ॥
  3. ख. ग. °लैर्युते ॥
  4. ?
  5. ?
  6. ?
  7. क. °ना दिव्याभ° ।