पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/146

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिरश्लाध्यायः ] | हस्त्यायुर्वेदः । ठपाधिमशामनाःसर्वे)सर्वेषां हस्तिनां हिताः । कालं देशं च विज्ञाय ततः स्वेदं प्रयोजयेत् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने *खेदाध्यापः | भूयोsङ्गराजः पप्रच्छ.पालकाप्यं महामुनिम् ॥ भगवन्दन्तिनां ह्येते पाकला दृश्ा कीर्तिताः ॥ १ ॥ उपसर्गेण जायन्ते सर्वेजास्त्विति मे मतिः ॥ वज्राशनिसमस्पर्शाः पाकलाश्च महामुने ॥ २ ॥ आशुकारितराश्चैव सदाप्राणहराश्व ते ॥ पाकलेनाभिभूतस्य वारणस्य महामुने ॥ ३ ॥ रक्षोघ्नैर्भोजनैर्गुघ्नं बलिहोमक्रियादिभिः । पुरस्कृत्य ततश्चापि क्रियां कुर्वीत शास्त्रवित् ॥ ४ ॥ इति प्रेोक्त भगवता पाकले वालसंज्ञके ॥ तत्सर्वमखिलेनेह वक्तुमहेसि तत्त्वतः ॥ ५ ॥ . तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् । इमं विधिं मकुर्वीत श्रेयोर्थेि भिषजां वरः ॥ ६ ॥ सामान्ययज्ञं निर्वर्त्य भूयः सुपश्यतो भिषक् ॥ रत्नेर्बीजैः फलैः पुष्पेर्दैवानभ्यर्च्य यत्नतः ॥ ७ ॥ ब्राह्मणान्भोजयित्वा तु दक्षिणाभिश्च तर्पयेत् ।। श्वेतां वा कपिलां वा sपि सवत्सां गामलंकृताम् ॥ ८ ॥ श्वेतचन्दनदिग्धाङ्गीं श्वेतमाल्यविभूषिताम् ॥ रोप्यशृङ्गं स्वर्णेसुरीं सवस्त्रां कांस्यदोहिनीम् ।। ९ ।। आरोग्यकरिणीं वैद्यो ब्राह्मणाय प्रदापयेत् ॥ देवताभ्यर्चनेनैड् ब्राह्मणानां तथा ssशिषा ॥ १० ॥ क्षिप्रं प्रमुच्यते रोगाद्वारणो नात्र संशयः । अत ऊर्ध्वं पवक्ष्यामि रक्षाकर्मेविधिं च ते ॥ ११ ।। श्वेतां प्रतिशिरां चैव श्वेतामपि वचां तथा ॥ दन्ते निबन्धयेद्वेद्यो मन्त्रिणानेन भन्त्रवित् ॥ १२ ॥

  • अयमध्यायः प्रायः शोफाध्यायाङ्गभूतः, अतो नास्य पृथग्गणनेति प्रतिभाति ॥

१ क. °न्नैर्भाज° ।