पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/144

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खेदाध्यायः ] ह्स्यायुर्वॆदः १३३ कृत्वा किण्वखवणविरूपिष्टसंयुकेर्दंध्यम्लकथितैः क्षुल्वोष्णैर्वारणमभ्यज्य यथायोगं पिण्डस्वेविढुपचारयन्तः पुरीषष्वेवेन स्वेदयेयुः ॥ पूर्वोद्दिष्ठांश्च पत्रभङ्गान्संहृत्पोदकानां च पत्रभङ्गानां भारचतुष्टयमुहूत्रले सोदपित्वा दुग्धे पाचपेत्। वल्ने बहुले प्रक्षिप्य प्रियङ्गशालिगोष्ट्रयत्रीदियवातसीकुलत्थनिष्पावानां चूर्णानि पयसाssलोड्य कुप्यं । ततोsग्निवर्णं कृत्वा पिण्डस्वेविदुपचारयन्तः कुप्पस्वेदेन स्वेदयेयुः ॥ घटीस्वेदेsप्यग्निवर्णा घर्टीं कृत्वा स्वभ्यक्तं ततः पूर्वोद्दिष्टैर्द्रब्ययोगैर्बहुलमनुलिप्य नागं पटावॆच्छन्नान्तरितं फालस्वेदविधिवद्बुपचारयन्यथायोगं घटीस्वेदेन स्वेढ्येत् ॥ पूर्वोद्दिष्टानां च खरकरभसत्त्वानां तुरगमहिषाश्वतरवराहाणामस्थीनि कल्कपिष्ठानि कृत्वा तिलपिष्ठलवणकिण्वदध्यम्लार्केसंयुतैर्वाऽभ्यज्य बहुलमनुलेपयेत् । ततः पटान्तरितं कृत्वा फालस्वेदविधिमुपचारयन्तो यथायोगमस्थिपिण्डस्वेदेन स्वेदयेयुः ॥ 幻 पिण्डस्त्रेढ्वतेषामेव सत्त्वानां मांसानि संहृत्य सुखोष्णेर्मासपोटलैः पूर्वविधिवद्दुपचारयन्तो यथापोगं मांसस्वेदेन स्वेदयेयुः ॥ पूर्वोक्तैः पत्रभङ्गैर्मृत्तिकां संयोज्य वारणमभ्यज्य यथायोगं पिण्डस्वेदबढुषचारयन्तो मृत्तिकास्वेदेन स्वेदयेयुः । तत्र क्षेोका: तत्रानेकविधः स्वेदः सोपचार: प्रकीर्तितः । यथाशास्त्रं यथाव्याधि पयुञ्जानस्य सिध्यति ॥ र्यस्त्वतान्विपरीतस्तु कुर्यात्स्वेदान्नराधिप । न सिद्धिमाप्नुयाद्वेद्यो व्यापादयति वारणम् । तस्मादेतच्छ्रुतवता तथा जीर्णेन भेषजम् । बन्धुस्नेहोपयुक्तेन कर्तव्या वारणे क्रिया ॥ एवं स्वेदविधिशश्व प्रयोगज्ञश्व यो भवेत् ।। " वरिष्ठश्चैव वैद्यानां पूजनीयः सदा भवेत् ॥ समासाञ्च पञ्च स्वेद्मस्तेषां भेदान्वयोदश । क्षतः परं स्वेदृगुणान्वक्ष्यामः । शरीरमार्देवकरो मृदुं मस्तम्भयति, “ स्तब्धं विलापयति ग्रन्थिभेदिः शोफहरो वातानुलोमनकरः क्रियामु सर्वोस्तयः पाचनीयेषु पाचनकर:, सर्ववातकफब्याधिहरश्वेति । यथा काष्ठमस्नेहयोगेन १ ग. ° वच्छिन्ना° । २ ग, यस्त्वतो विप° ।