पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/143

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने गोवराहाजानां मूत्रपुरीषणि पयसाssलोङय पूर्वोक्तेश्व पत्रभङ्गानाहृत्य क्काथयेत् । ततः स्तैस्तिलपिष्ठलवणकिण्वसंयुकैः स्वेदयेत् । वातश्लेष्मविकारेष्वव(वि)च्छिन्नस्वेदयोगाः पूर्वोक्तद्रव्यसंयुक्ताः पत्रभङ्गाः स्वेवोपचारवद्भषन्ति । गोजाविखरोष्ट्रमहिषाणां मूत्रपुरीषाणि पयोदधिपत्रभङ्गविमिश्राणि सुखोष्णानि कुत्वा वारणमभ्यज्य बहलमनुलेपयेत् । सगदावच्छिन्नमन्यास्तम्भोत्कैर्णकद्रोणीकशोफांश्व पिण्डस्वेदवदुपचरेत् । उपचारमं(व)न्तं संकरस्वेदेन स्वेदयेयुः । तस्मादेष संकरस्वेद: कार्यः । त्रपुस(ष)शणमूलकैरण्डबीजानि सिद्धार्थकतिलपिष्ठलवणकिण्वमाषाणो चूर्णानि सुरया पयसा वा सार्ध कृत्वा तेन सुखोष्णेन वारणमभ्यज्य बहलमनुलेपयेत् । ततः पदान्तरितं कृत्वैरण्डार्कपत्रैः परिच्छाद्य तमग्निवर्णैः फालैः समन्तात्परिवारर्यस्ततः कटिचरणगात्रापरस्तब्धाङ्गनि च यथायोगं फालस्वेदेन स्वेदयेत् । तस्मादेष फालस्वेदः कार्यः ॥ माषातसीतिलपिष्टलवणकिण्वयवकोलकुलत्थगेोधूममूलकरण्डशणकपीसी बीजानि त्रपुषसर्षपसरलभद्रदासकुष्ठतगरशतपुष्पापष्टीमधुकराम्नाश्च संभृत्प यानि चान्यानि'द्रव्याणि वातघ्नानि, तेषां मूलानि कल्कपिष्टानि कृत्वा सपैिस्तैलवसामज्जाभिः संयोज्य पाचयेत्, ततस्तं वारणमभ्यज्य वातश्लेषमविकारेषु यथायोगं पिण्डस्वेदेन स्वेदयेत् । तस्मादेष पिण्डस्वेदः कायैः ॥ महांस्थाल्यां लौह्यां वा पूर्वोद्दिष्टान्पत्रभङ्गांस्तिलपिष्टलवणकिण्वसंयुक्तान्दध्यम्लेन संयोज्य क्ाथयेत् । ततो वारणमभ्यज्य नाडीस्वेदेन स्वेदयेत् । नाडीं च वैणवदलैः कृत्वा यथाव्याधिप्रदेशमात्रां वाससा वेष्टयित्वा तद्वदुक्तमाषचू णमलिप्तां भूयो वक्त्रपरिवेष्ठितां कृत्वा पथायोगमितस्ततः संचारयत(न्त): मोहाठ्ठीब्योपस्कारान्सफलकठपस्थिजठरलाङ्कलकरगात्रापरशोफस्तम्भं च नाहीस्वेढेन स्वेद्ययुः । तस्मादेष नाडीस्वेदः,कार्यः ॥ तत्र संस्कृतासंस्कृतैः स्नेहद्रव्यरसैरानुपौदंकीनां च सत्त्वानां मांसरसवेसवारैः कूपे द्रोण्यां वाप्यां (*वातह्ररपत्रभङ्गब्यामिश्रितेः सुखोष्णैः पाणिभ्यां परिमार्जयन्तो पथायोगं स्नेहस्वेदेन स्वेदयेयुः । खरकरभतुरगमहिषाश्वतरवराहाणां मूत्रपुरीषाणि पन्नभङ्गव्यामिश्राणि - * धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ १ क. "क्तांश्चात्र भ° । २ क. °त्कर्षक° ॥ ३ क. ग. °मतं सं° ॥ ४ क. न. "गं फल° ॥ ९ क. °र्पासबी° । ६ क. °हाबाल्यं लोल्यां वा°॥ ७ ख. °लिप्ती य° ॥ < क. °दकानां ।