पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/139

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ पालकाप्यमुनिविरचितो- [ १महारोगस्थाने यस्य क्षीणस्य नागस्य) शोफो भवति पादतः । विच्छिन्नः कठिनो ऋक्षः शुद्धं रक्तं श्र(स्र)वत्यपि । न चात्यर्थं विषहते इीतमुष्णं च वारणः । शाल्मलीस्कन्धशोफं तु तमसाध्यं विनिर्दिशेत् ॥ उत्पद्य च विगच्छेद्यो विगत्य पुनरेति च । कपोलपायुमन्यासु इोएरः सोऽपि न जीवति ॥ एकाङ्गं स्र(शू)पते यस्य न च खादितुमिच्छति । स्थाने स्तम्भबलश्च स्यान्न स जीवति तादृशः । यस्प मन्ये च नाभिश्च जघनं मेढूमेव च । पेचकश्चापि वर्धन्ते न स जीवति तादृशः ॥ अण्डकोशः सनाभिस्तु यस्य वर्धेत वेगतः । उरश्वांसौ च सहसा विगत्य प्रतिपद्यते ॥ सगदे च यदा प्राप्तः स शोफो यस्य हस्तिनः । तदा तेन स शोफेन मासादूध्र्व न जीवति ॥ (*क्षीणशोणितमांसस्य वर्धमानस्य हस्तिनः । अष्ठीव्यः सहसा सोऽपि मासादूर्ध्वं न जीवति ।) मन्ययोर्यस्य लक्ष्येत श्वयथुजेलवश्चलः । दौर्मनस्यं च सहसा सोऽष्ठरात्रं न जीवति ॥ अ३मना सह तुल्यस्तु श्वयथुर्जायते नृप । वइक्षणौ बस्तिमाश्रित्य ( *:दाहरागसमन्वितः ॥ वर्धते चापि जलवत्समन्ताद्भहुवेदनः । नवाहाद्वारणस्तेन शोफेनाssती विपद्यते ॥ कर्णसंधिं समाश्रित्य ) चैयथुर्यस्य जायते । वेदनागाढबहुलो विवृद्धिंमुपगच्छति ॥ ग्रासं न सेवतेऽत्यर्थे मुहुरुद्विजते द्विपः । मातशोफः स मातङ्गो दशाहं नातिवर्तते ॥ भूयिष्ठं यस्य गात्रेषु शोफो नागस्य जायते । अग्निदग्धनिभैः स्फोटैः समन्तादॆचिरस्थिरैः ॥

  • धनुराकारमध्यस्थः पाठो नास्त कपुस्तके ॥

१ क. ग. उरश्वासौ । २ क. °दस्थिरैः स्थि° । ग. °दचिरैः स्थि° ।