पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/136

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ शोफाध्यायः ] ह्रस्यायुर्वेदः । १२५ (श)पियालानां त्वग्भिः कल्कपिष्टाभिः मलेपनं कारयेत् ।। ) हरिद्राश्टहधूमल शुनसैन्धवपिप्पलीमरिचशृङ्गवेरतगरसर्षपकुष्ठबृहतीफलैः प्रेतिचूर्णनं कारयेत् । विश्रा(स्रा)व्यमांणे रक्ते शाल्योदनं मुद्रयूषेण घृतस्रिग्धेन भोजयेत् । क्षीरिणां च वृक्षाणां कर्डंगराण्यौदकानि च यवसानि मधुररसान्वितानि मृदुहरितान्प नूपजानि दद्यात् ॥ तत्र श्लेक: एवं रक्तात्मजे कर्म श्वयर्थी परिकीर्तितम्। यच पित्तात्मज्ञे प्रोक्तं कार्यं तदपि भेषजम् ॥ इति रक्तशोफः । अथ वक्ष्यामि वै शोफमुत्पत्रं वातशोणितात् ॥ विशेषेणोपलक्ष्येत स गात्रेष्वपरेषु च ॥ १ ॥ अम्लादिभोजनाद्रौक्ष्यादुष्णादत्यन्तभोजनात् ॥ अकस्मात्सततस्थानाद्गात्रविक्षोभणक्रमात् ॥ २ ॥ पतनाद्येश्व नागानां कुप्येते वातशोणिते ॥ शोफः संजायते तेन तँस्मात्तु गुरुवेदनाः ॥ ३T॥ पादस्तम्भश्व नागस्य संधिविश्लेष एव च ॥ अत्यर्थं चैव दौर्बल्यं न चाssहाराभिनन्दनम् ॥ ४ ॥ विद्यात्तस्य तु नागस्य शोफमस्थिसमाश्रयम् ॥ रक्तो वा यदि वा ३यामः शोफः समुपजायते ॥ ५ ॥ तेनातिवेदना वाऽपि स तु मेसिाश्रयो भवेत् ॥ पपौण्डरीकं कटुकां सारिवे द्वे तथैव च ॥ ६ ॥ मञ्जिष्ठां त्रिफलां चैव पयूसा सह पी(पे)षयेत् ॥ ततो घृतविमिश्रेण शोफं कल्केन लेपयेत् ॥ ७ ॥ गोधूमचूर्णमथवा संमृष्टं पयसा सह ॥ , , ' अजाक्षरेिण संयुक्तं तस्य लेपं तु कारयेत् ॥ ८ ॥ (*तालीसपत्रं मांसी च दाडिमं कुष्ठमेव च ॥ द्ने हरिद्रे पृथक्पणी मन्जिष्ठा पद्मकेसरम् | ९ II

  • धनुराकारमध्यस्थपाठः कपुस्तके न ।

१ क. प्रतिचूर्ण। ९ क. “भाणं रक्तशा” । ३ ख. ग. पित्तात्मके । ४ क. यस्मातु । १ क. रोगाश्रयो । ६ ग. पाययेत्।