पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/133

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ 鬱 पालकाप्यमुनिविराधितो– [ १ महारोगस्थाने स्तिलपिष्ठलवणसंयुतैर्नाडीस्वेदं कुर्यात् । एतेषामेवास्थिभिरस्थिस्वेक्षः, पुरीषैः पुरीषस्वेदः । सर्वश्वयथूनां चोपशमनायास्थिमांसशङ्करस्षेद्ा: शश्वावब्याः । पित्तशोणितात्मकेन प्रयोज्याः पर्यवसाने वा पपोक्तव्याः । तत्र श्लोकी इति व्याधिपशमनाः सर्वेषां हस्तिनां हिताः । अस्थिमांसशकृत्स्वेदा मूत्रस्वेदाश्च कीर्तिताः ॥ वृषणौ हृदयं नेत्रे स्वेदयेन्मृदु वा न वा । नित्यसूक्ष्मपरीतानि स्थानान्येतानि 'तेजस: ॥ भूय: स्विन्नशरीरस्य हरिद्राजमोदकुष्ठवचालथुनसैन्धवपिप्पलीमरिचबिल्वमृद्वीकाशतपुष्पादेवदारुष्टृथ्वीकॊभिर्दधिमस्तुपिष्ठाभिः सततं वातशोफमनुलेपनं कारयेत्। पूर्वाह्रै चैनं बिल्वाग्रिमन्थश्रीपर्णीवरुणकपाटलानिर्युहपर्क तृ(त्रि)दृत्ख्नेहँ पाययेत् । जीर्ण स्नेहे चास्य जाडूले मृदु हँस्तिं यवसमुपहरेत्। शाल्योदनं चैनं भोजपेत् । भोजनार्थमपि चास्य मत्स्यमांसं सुसंस्कृतं दापयेत् । वाराहं वा रसं युक्ताम्ललवणस्नेहं दद्यात् । रसं वा कौलत्थं पुरुस्नेहलवणं दद्यात् । करीषेण चास्य शय्याभागं प्रकल्पयेत् ॥ तत्र श्लोकः- 態 एतेन क्रमयोगेन श्वयथु पवनात्मकम् । साधयेत्कुशलो वेद्यो दृष्टकमो विचक्षणः ॥ इति वातशोफः ॥ श्रुधाम्ललवणकटुकविदग्धातिभोजनादुष्णोपयोगेभ्यः पित्तं प्रकुपितं शोफमुष्णमहातमः पाद्यति ॥ स पाण्डुरुष्णगात्रः शूनश्च भवति ब्रूारणः सर्वाङ्गाणि चास्य दोषधानुपकोपात्मभिद्यन्ते, तेन वेदनार्तो मुहुर्मुहुर्मुरुं व्याददाति स्तम्भमाश्रपति श्वसिति परिधमति वमथुं हस्तेन ग्रहीत्वां श्वेयंधुमभिषिञ्चति वमति, न स्थानशय्याछ् शर्मोपगच्छति । परिदुर्गना यवसकवलकुबलभोजर्न च नाभिनन्दति । दह्यते चात्यर्थम् । स दह्नमानः स्थानान्यन्यानि गच्छति सलिलाभिकाङ्क्षी, कर्णतालाभ्यां मन्दं पैरिव्रजति शीतमभिनन्दति, उष्णद्वेषी रात्रौ सुखनिद्रश्च भवति १॥ * _ तस्भे त्रिफलायुक्तं सर्पिष्पानं दद्यात् । प्रपैौण्डरीकलथुनोरुबूकहंसपाद्यति* 'मुष्णं महान्तं संपादयति' इति पाठः स्यात् ॥ * के तेजसा ।। ९क, “कादिभि° । ३ क. रहिता, कपरिचयते।