पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/132

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७शोफांध्यायः] इस्लयायुर्वेदः । । १२१ तेन मुञ्चति भ्रमति, व्पाददाति मुखं गजः, स्तब्धगात्रो गाढमूत्रपुरीषी भोजनकवलकुवलद्वेषी च भवति । । तस्मै तैलपानमभ्यङ्गं च दद्यात् । (*ततः शृङ्गवेरन्योनाकसोमवल्कपिष्षलीचित्रककुटजकरवीरार्कखदिरकुष्ठतालीसपत्रैश्चैनं कल्कपिष्टैर्बहलमनुलेपयेत् । ) अथवा-तिलपिष्ठलवणतन्दुलकिण्वैस्तक्रदध्यम्लसिद्वे रात्रिपर्युषितैः प्रलेपयेत् । अथवा-जलचरसत्त्वानां मांसमेद:कदम्बवल्लीबदरमण्डैस्तक्रदध्यम्लसिद्धैः चुखोष्णैरानखेभ्यः प्रलेपयेत् । अथवा-स्पोनाकतालपत्रीमेषशृक्लीवंशपत्रिकाकाश्मर्यकुलिङ्गाक्षीपाटलीबिल्वारग्वधशोभाञ्चनकक्षुद्रसर्षपैथूर्णीकृतैस्तक्रदध्यम्लोत्क्काथितै: प्रलेपयेत् । थुकनासाकाकादनीवरुणकमुवहातिलपिष्टाबलातिबलाशोभाञ्जनकबीजक्षुद्रसर्षेपैश्चूर्णीकृतैस्तक्रदध्यम्लसिद्धैः मुस्वीष्णैः प्रलेपयेत् । सामुद्रलवणबदरशतपुष्पाहरिद्राद्वयपुनर्नवाधत्तूरकपत्रचित्रकग्रद्दधूपगोमांसेः पश्चमूलकाथतक्रदध्पम्लसिद्धेः मुखोष्णैर्बहुलमनुलेपयेत् । सलवणवालुकया वा श्लेष्मान्तकसंसृष्टया प्रलेपयेत् । कृशरां वा युक्तस्नेहलवणां कृत्वा तपैग्न सुखोष्णया प्रलेपयेत् । पूर्वाह्णे चैनं पिप्पलीमरिचशृङ्गवेरचूर्णव्यामिश्रितां चिरस्थितां सपञ्चलवणां पाययेत्सुराम् । अश्वमूत्रं वा विडङ्कचूर्णसंयुतं पाययेत् । कोद्रवौदनं चैनं सर्षपकृल्कव्यामिश्रेण सौवीरकेण भोजयेत् । अथवा पिप्पलीमरिचशुङ्गवेरकल्कसंसृप्टेन कुलत्थरसेन भोजपेत् । पार्वतीयं चास्य यवसमुपहरेत् ॥ तत्र श्लोकी क्रमेणानेन राजेन्द्र पस्तु कुर्यात्क्रियाविधिम् । शोफं तस्यापनयति भिषक्कर्मविशारदः ॥ प्रदेहैः स्वेदनाभ्यङ्गैः प्रयत्नैः पानभोजनैः । यस्तु कुयौद्विपर्यस्तं स हन्याद्विरदं नृप ॥ इति शुद्धशोफसामान्यप्रतिक्रियापयपिः ॥ अथ शोफे वातिके स्वेदझर्म वक्ष्यामः । घटीमृत्तिकानांडीतापिकाफलपिण्डसलिललवणपाषाणैः स्वेदयेत् । यथायोगं मुरसासुमनानिर्गुण्डीमधुकाकॉरुबूकवंशतर्कारीकुलिङ्गाक्षीपत्रभङ्गैस्तिलपिष्टलवणसंयुक्तैर्महास्थाल्यां काथयित्वा निवाते देशे तैलाभ्यक्तशारीरं नाडीस्वेदेन स्वेदयेत् । एतेनैव च कल्केन मूत्रैः खरकरभतुरगमहिषाश्वतरवराहाणां स्वेदः कार्यः । अथैषामन्पतमस्य मांसै

  • धनुराकारमध्यस्थपाठः कपुस्तके न ॥

१ क. °श्वर्णितै° । १६