पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/130

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ शोफाध्यायः ] हस्त्यायुर्वेदः । ● ११९ नं चाssहारमभिलषति यादृशमुपयुङ्के तादृश्ां निरूहति तद्वर्णगन्धपुरीषमुत्सृजति परिमूत्री च भवति । लालाश्रा(स्रा)वी भ्रमति कुप्यति मुह्यति, अवसीदति । तस्यैवंरूपस्य सर्वमाहारं प्रतिषेधयेत्, ऋते च यवसाद्यथोक्तात् । तं त्रिकटुकर्सयुक्त सपञ्चलवणा प्रसन्न पापयेत्।त्रिफलोबदरपाठाचित्रकशणबीजशोभाञ्जनकहरिद्रद्वयहङ्गसर्षपत्रिकटुकेन्द्रयर्वावदारीकरञ्जकटुकमत्स्याँम्लिकापिसुमन्दाटरुषकसैन्धवसौवर्चळकटुकरोहिणीन्द्रयवकुस्तुम्बरीण्युदूखले संक्षुद्य गोमयसंयुक्तान्कवलान्दद्यात् । क्रमशश्चास्य तृणेरेव प्राणं ग्रह्णीं च वर्धयेत् । मतिषेधयेत्सवैमन्यत् ॥ इत्युपधाव्यापत् ॥ तत्र श्लोका: युक्तः सदा परीक्षेत वारणे कुशलो भिषक् । जीर्णाजीर्णं प्रह्वर्षं च दौर्मेनस्यं बलाबलम् ॥ निदानेः शास्त्रविहिते: सम्यग्ब्यार्धि परीक्ष्य च । , यथोक्तेन विधानेन (*चिकित्सितुमुपक्रमेत् ॥ इत्यष्टौ व्यापदः सम्यग्वारणांनां हितैषिणा ॥• ससंभवा मया मोक्ताः सूनिदान)चिकित्सिताः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने (अष्टी) व्यापदध्याय: सप्तद्इा: K षोडशा: ) ।। १६ ।। अथ सप्तदशाध्यायः ।। अथ भगवन्तं महर्षिमभिवाद्य रोमपाद: प्रपच्छ पालकाप्यम्-‘भगवन्ये त्वया व्याधिसंरूपापां सप्त (*शोफा उद्दिष्टाः, तेषां के साध्याः, केऽसाध्याः, कथं वा संभवन्ति, किं वा चिकित्सितम्' इति ॥ पालकाप्य उवाच-“श्दू खलु भो गजान सप्त) शोफा: संभवन्ति । तद्यथा-मन्याशोफः, सगदाशोफः, द्रोणौकशोफः, अवच्छिन्नशोफः, शाल्मलीस्कन्धशोफः, कदलीस्कन्धशोफः, 'गात्रशोफः, शुद्धशोफश्वेति ॥

  • धनुराकारमध्यगः पाठः कपुस्तके न ॥ + धनुराकारमध्यगतपाठः खपुस्तके न । * अस्य गात्रशोफस्यैव शुद्धशोफता भवेत् । अत एव सप्तसंख्योद्दिष्टा संग्रंहाध्याये गात्रशोफस्यानुल्लेखश्व संगच्छते ॥

१ क. °लापद° ॥ २ क. °त्स्याक्षीका° ।