पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/128

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ व्यापद्रेोगाध्यायः ] - । हस्त्यायुर्वेदः । , , 會 ११७ संक्षौद्रपिप्पलीकेन मुद्रयूषेण भोजयेत् । यवसानि यथोक्तानि दद्यात् । ततः स्वस्थी भवति | - इति वसाव्यापत् ॥ अथ पदा वातशोणितपित्तानां विकारैः पीड्यमानस्य दन्तिनः क्षीरपानमनुविधेयं भवति तदा, जीर्णे कफप्रकोपे वा पयः पीत्वा क्षीरव्यापदमृच्छति । ततः कुष्ठकिटिभदहूकिलासपिटर्कीद्रमाः प्रादुर्भवन्ति, कण्ड्रश्व परिहृष्ठरोमा न संवीजति विरिच्यते मुखप्रसेकश्वास्य भवति ॥ * तस्मै वरुणतिन्दुकोदुम्बरान्मधुसंयुक्तान्कवलान्दद्यात् । अथवा द्राक्षायष्ट्रीमधुसंयुक्तान्कवलान्दापयेत् । पद्मकमोचरससमङ्गाना वाँ मधुसंयुक्तान्कवलान्भोजयेत् । प्रसन्नां प्रैतिपाने च भोजनं मुद्रयूषोदनं दद्यात् । जीर्णपादं शिरीषपल्लवांश्व यवसं दद्यात् । एतेन प्रतीकारेण क्षीरव्यापदो मुच्यते द्विपः प्रकृतिस्थश्ारीरस्तेजस्वी बलवाँश्च भवति । इति क्षीरव्यापत् ।. स्वस्र्थवृतेर्विकारोपशमनार्थ वा यदा सुरा वारणाय प्रदीपते, द्राक्षागुडतैललवणसंयुक्तां केवलां वा प्रसन्नाम्, अथवाऽपि सुरामेजातां तरुणीं स्थानदोषान्वितां विपन्नां वा पीतवतो व्यापदुद्भवैति ॥ ततः प्रेमीलयति, उन्मीलयति, अवलीयते, अत्यर्थ दह्यते, प्रमेहति, "संवीजति वेपते वमति कूजति परिहृष्यति, अवसीदति व वारणः । गजमवेक्ष्य च्छायास्थं तमेवंगतं विश(?)मृणालोत्पलचन्दननलनेतसमूलैर्जम्बूकिशलयैश्च कर्दमोशीरपद्मकशतपुष्पामञ्जिष्ठाभिः श्लक्ष्णपिष्ठाभिः 'पलेपयेत् । इारीरं सशिरस्कमानस्वेभ्यो जलार्द्रवंत्रैः पतिच्छाद्य व्यजनेवाँजयेच्छायास्थितम् । तत: स्वस्थी भवति । दाहस्य चास्योपशमी भवति । पारावताम्रदधित्थदाडिमाम्रातकबदरपरुषकभव्यलकुचमृद्वीकामातुलुङ्गानि घटेषु सलिलटुतानि वासपेद्रात्रिम् । ततः परिश्ना(स्रा}ठय सशर्करासौवर्चलजीरकं प्रतिपानं पाययेत् । अम्लवेतसवेत्रफलानि तिन्तिडीकफलानि गुडबदररसैरन्यैर्वाऽप्येवंप्रकारैर्वृक्षभङ्गवल्लीकडंगरेभेजियेत् । अम्लां वा यवागूं रसमांससंस्कृतां सपश्चलवणां पाययेत् । मुरां वा सपञ्चलवणामधेदिकां वा पाययेत् । पिप्पलीमृरिचलव १ ख. ग. °सक्षारपि° । २ क. संजीवति ॥ ३ क. वा समधुयु° ॥ ४ क. प्रतिपानं । ६ क. °मराजतां । ६ प्रलीयतेऽत्यर्थमुन्मी° । ७ क. संजीवति ॥ ८ क. गतविशं ॥ ९ क. सर्वश° ॥ १० ख. °वागूर° । - o