पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/125

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने मधुकं क्षीरवृक्षाश्च सोमवंख्कार्जुनावुभी ॥ नलवञ्जुलमूलानि पयस्या चोत्पलानि च ॥ १६७ ॥ पयसा कल्कपिष्ठानि घृतेन सह योजयेत् । अग्निकर्मक्षतान्पादान्गजस्याऽऽलेपयेद्रिषकू ॥ १६८ ॥ नलिकानलमूलानि शाळूकानि विशानि च ॥ प्रपौण्डरीकं मधुकं लोधमुत्पलमेव च ॥ १६९ ॥ समभागानि सर्वाणि सलिले परिवासयेत् ॥ एतैः शीतकषायैस्तु पादनिर्वापणं भवेत् ॥ १७० ।। वारकुम्भांकवृक्षाणां त्वचमारग्वधस्य च । नदीजम्बीश्व मूलानि नलिकाया नलस्य च ॥ १७१ ॥ समभागानि सर्वाणि सलिले परिवासयेत् ॥ एते शीतकषायाः स्युर्दाहनिर्वापणाः स्मृताः ॥ १७२ ॥ डैपरूहेषु पादेषु स्थिरता जायते यथा ॥ so तथा वक्ष्यामि राजेन्द्र तलानां हितमुत्तमम् ॥ १७३ ॥ धावने त्रिफला कार्या चूर्ण वाऽस्या महीपते ॥ तिलतैलसमायुक्तं स्थिरीकरणमुत्तमम् ॥ १७४ ॥ पिण्डीतकस्य बीजानि चूर्णीकृत्य त्वचा सह ॥ लेपस्तैलेन संयुक्तस्तेनास्य कठिनास्तलाः ॥ शंर्करा काष्ठदी(ही)नायां वैौथ्या(थ्पां)नागं विचारयेत् ॥ १७५॥ तत्र श्लोकौ धावनैः स्नेहनेश्चूर्णैश्वर्मैकोशैश्च तांस्तलान् ॥ पादरोगप्रशान्त्यर्थं सदा'रक्षेत बुद्धिमान् ॥ ७६ ॥ क्रियामष्टविधामेनां सम्यक्शास्राणि निश्चितम् ॥ प्रयुङ्गे यो यथायोगं स भिषक्श्रेष्ठ उच्यते ॥ इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन प्रचोदितः ॥ ७७ ॥ ९९४ ।। • इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने ● पादरोगाध्पायः षोडशः (पञ्चदृशः) ॥ १५ ॥ -سسسسسسسسسسسسسسسسسسسسس-----سس-مس----سم سسيمس गूढेषु । ३ क. शर्करां ॥ ४ क. मार्गनागं । ' तः ’त् ॥ चारकु” । २ कि.उन्।