पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/120

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ पादरोगाध्यायः ] हस्त्यायुर्वेदः । १०९ एतयोः स्वेदनं कार्यमभ्यङ्गश्चैव नित्यशः । कदम्बपुष्पकेशश्व कचकेशश्च यो भवेत् ॥ ९८ ॥ घृतं लवणसंयुक्तं नित्यमभ्यञ्जनं हितम् ॥ गोमूत्रं वाऽश्वमूत्रं च स्वरमूत्रं तथेव च ॥ ९९ ॥ त्रिफलासोमवल्कानां निष्काथः पादधावनम् ॥ भल्लातकानां तेलं च तिलतैलं घृतं वसा ॥ १०० ॥ पाद्रोगेषु नागानां स्नेहनं हितमुत्तमम् ॥ भिपङ्गुतगरं कुष्ठं तेजोह्वा रजनीद्वयम् ॥ १०१ ॥ वश्वासैन्धवसंयुक्तं घृततेलसमन्वितम् ॥ सर्वेषां पारोिगाणां केशशातनमुत्तमम् ॥ १०२ ॥ (*सर्षपाश्वित्रकी दन्ती श्वेता कटुकरोहिणी ॥ महावृक्षार्केयोर्मूलं भल्लातकफलानि च ॥ १०३॥ लवणानि हरिद्रे च कोशातक्याः फलानि च ॥ पिचुमन्दपलाशानिं त्रिवृता चेतसर्षपाः ॥ १०४ ॥ कल्कपिष्ठानि सर्वाणि केशाशातनमुत्तमम् ॥ ) गुग्गुलं निम्बपत्रं च त्र्यूषणं च तिलै: सह ॥ १०५ ॥ कल्कपिष्टानि सर्वाणि केशाशोधनमुत्तमम् । विषघ्नाsतिविषा कुष्ठं सर्षपाः मुरदारु च ॥ १०६ ॥ त्रिहृद्दन्त्यार्केभल्लातमूलानि च शाणं तिलाः । अतसीं च पटोलं च प्रत्येकं केशशोधनम् ॥ १०७ ॥ अतंर्सों (*ः किण्वमेरण्डसुरा क्षारतिलात्वचम् ॥ महावृक्षार्कयोर्मूलं पिष्ठा भल्लातकानि च ।। १०८ ।। मधुशियुफलैः सार्ध पादरोगेषु शोधनम् ॥ कासीसं ) सैन्धवं कांस्यं तथा नीली रसाञ्जनम् ॥ १०९ ।। सौरींष्ट्रा मधुकं चैव पादरोगेषु रोपणम् ।f घेोण्टाफलानि त्रिफला निचुलानां फलानि च ।। ११० ll तलरोगेषु नागानां स्थिरीकरणमुत्तमम् ॥ गोजीत्वचोऽश्वकर्णश्च सोमवल्कधनंजयी ॥ ११९ ॥ 来源 धनुराकारचिहद्वयान्तर्गतपाठः कपुस्तके नास्ति ॥ - १ क. ख. °नि तृवृ° । २ क. °कं कोश° । ३ ख. °तसीकि° ॥ ४ क. * “राष्ट्रम° । १ क. ख. घेोटाफ° । -