पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/119

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

aడి णुलकाप्ययुनिरिचितो- [१महारोगत्याने तं स्थानेरतमित्याहुः सततं स्थानसेवया । इति त्रिंशदिमे मोक्ताः पादरोगाः सलक्षणाः ॥ ८४ ॥ चिकित्सितं यथा येषां विस्तरेण प्रवक्ष्यते ॥ ३ास्राग्निक्षारचूर्णानि धावनालेपनानि च ॥ ८५ ॥ स्नेहनं चॉन्ववेक्षा च क्रियाधिष्ठानमष्टधा ॥ कुठारपादः स्थानरतः केशग्रन्थिः सविटुतः ॥ ८६ ॥ समन्तकेशः संराष्ट्रकेशो विपुावकश्व यः ॥ असाध्याः पादरोगाः स्युः षडेते शास्त्रनिश्चयात् ॥ ८७ ॥ अत ऊर्ध्वं तु याप्यांश्च साध्यांश्च शृणु पार्थिव ॥ कदम्बपुष्पः सेकचः प्रफुल्लः फुद्ध एव च ॥ ८८ ॥ चत्वार एते याप्याः स्युः पादरोगा नरेश्वर ॥ नखभेदो भिन्ननखो निर्मूलितनस्वस्तथा ॥ ८९ ॥ स्वलितश्चानुद्धतश्च कृच्छ्रसाध्यास्तु ते स्मृताः । पूयकेशः मगुल्मी च रक्तकेशाश्च पार्थिव ॥ ९० ॥ एतेsपि दुश्चिकित्स्यास्तु मृांसकेशश्च यः स्मृतः ॥ स्वलितो नस्वभेदश्च केशो भिन्ननस्वश्च यः ॥ ९१ ॥ उत्कार्की सगम्भीरः साध्याः पश्चाग्निकर्मणा ॥ कारकी दडुकेशश्च मांसकेशश्व पार्थिव ॥ ९२ ॥ प्रगुल्मी चेति चत्वारः क्षारसाध्याश्चिकित्सकैः ॥ क्षतो निर्मूलतश्चैव पूयकेशः सलोहितः ॥ ९३ ॥ नाडीजातश्च विज्ञेयः इारनद्धश्च यो भवेत् ॥ स्थाण्वाहतश्च समेते साध्यैाः स्युः शास्रकर्मणा ॥ ९४ ॥ क्षरीकृतः क्षीणतलस्तथा चर्मतलश्च यः । निष्पिष्ठंतल इत्येते चत्वारः पृथिवीपते ॥ ९९ ॥ अप्रमत्तेन भिषजा साध्याः स्युर्मूलकर्मणा ॥ असाध्याश्चैव याप्याश्च साध्याश्चैव यथा यथा ॥ ९६ ॥ कीर्तिताः पृथिवीपाल चिकित्सितमतः शृणु । द्वावेतो सहजी रोगी मुफुल्लः फुल्ल एव च ॥ ९७ ॥ १ क. "नतरमेि° । २ ख. ग. °तं तथाऽप्येषां ॥ ३ क. प्रचक्षते ॥ ४ क. चात्र वक्ष्या च ।। ९ क. सवचः ।। ६ क. “नुवृत्तश्च । ग, “नुद्धृत” ।