पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/118

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*१९ पादरोगांध्यायः ] हस्त्यायुर्वेदः । १०७ नितनाँ मोह्रदेशेषु विक्ानस्वशिखासु च । तेन केशा विवर्धन्ते तत्र शोणितसंभवः ॥ ६९ ।। शोणितक्षरणाचेषां रक्तकेशत्वमिष्यते ॥ वनपर्वतदुर्गेषु चरतां न्तिनां यथा ॥ ७० ॥ स्थाणुना भिद्यते पाद: स तु स्थाण्वाहतो भवेत् ॥ लोष्टाश्मकण्टकाकीणौ यदा संचार्यते महीम् ॥ ७१ ॥ इाराधानवर्तीं वाsतितप्तं वा बहुशो गजः ॥ तस्य तेनोपतापेन दुष्यन्ति तलसंधयः ॥ ७२ ॥ क्षीयन्ते च तला गाढं स तु क्षीणतलो भवेत् ॥ पतिघ्नतो यदिा यातुस्तिष्ठत्याक्रम्य इार्केराः ॥ ७३ ॥ मन्त्रं गच्छति पर्यश्रुः पथि क्षीणतलो गजः । तस्य क्षीणतलस्येह तलेभ्यः पूयशोणिते ॥ ७४ ॥ क्षरितः स तु विज्ञेय: पादरोग: क्षरीकृतः । •विनिष्पिनष्टि यः क्रुद्धो मुहुः पादतलं गजः ॥ ७५ ॥ शर्कराशरधानेपु लोष्टाश्मगहनषु च । ” तस्य पार्षिणमदेशेषु शोणितं संप्रदुष्यति ॥ ७६ ॥ मद्घृष्टं जनयेद्यार्धेि गजस्य भ्रुशदारुणम् ॥ निष्पिष्ठतलमित्याहु: पादरोगं चिकित्सकाः ॥ ७७ ॥ अत ऊर्ध्वं प्रवक्ष्यामि मांसकेशस्य लक्षणम् । नखान्तरेषु सर्वेषु विक्कानखशिखासु च ॥ ७८ ॥ यदा संजायते केशो मांसं प्राप्तः सुदारुणः ॥ गम्भीरमूलकठिनो बहुलो गुरुवेदनः ॥ ७९ ॥ मांसकेशाः स विज्ञेयः पादंरोगश्चिकित्सकैः । क्रोधाद्भयाद्वा मातङ्गं यदा तु परिचारकाः ॥ ८० ॥ न नयन्त्यवगाहं च इाय्यायां नापि नाध्वनि । स्थान एव निबद्धस्य कवलं पद्धवं जलम् ॥ ८१ ॥ क्षुणं चैव प्रयच्छन्ति विधां च लवणानि च । तस्य कुप्यति पादेषु चिरस्थानेन मारुतः ॥ ८९ ॥ रैफटन्ति सर्वेतश्चास्य तलाः सतलसंधयः । नखान्तराणि भिद्यन्ते मोहौ निर्भुज्ञतस्तथा ॥ ८३ ॥ १ क. °पि नोऽध्व° । २ क. स्फुटन्ति ।