पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/115

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ पालकाप्यमुनिक्रािषितो- [१महारोगस्थाने नवैवाऽऽगन्तवो रोगाः शेषाः स्युर्दोषसंभवाः | अत ऊर्ध्वं चिकित्सां च लक्षणं च प्रवक्ष्यते ॥ २९ ॥ तत्र चोत्कारकीलिङ्गं वारणस्य प्रवक्ष्यते ॥ यथानिमित्तं मातङ्कं पादब्यार्धे निपच्छति ॥ २६ ॥ तृणमूत्रपुरीषाणां पांशूनां कर्दमस्य च । उत्करे तिष्ठति यदा सततं कथिते गजः ॥ २७ ॥ तेनास्य पलिपादेषु पवनः परिकुप्यति ॥ दारुणं लभते तेन पादरोगं मतङ्गजः ॥ २८ ॥ नाड्यो वातेन जायन्ते केशा वा भ्रुशदारुणाः ॥ दुःखितस्तेन मातङ्गः स्थाने न लभते मुखम् ॥ २९ ॥ दन्तिनो नखमूलेषु यदा कुष्पति मारुतः ॥ श्लेष्मणा सहितस्तेन कण्डूस्तस्यांपजायते ॥ ३० ॥ (*ततः कण्डूयतेऽत्यर्थं करेण सततं करी ॥ तेनावच्छेदनात्केशकारकी नाम जायते ॥ ३१ ॥ ) स्वशरीरसमुत्थानाः काष्ठलोष्टक्षतादपि ॥ न साध्यन्ते यदा वैद्यैर्व्रणाः, पादेषु दन्तिनाम् ॥ ३२ ॥ विसर्पन्ति ततस्तेषां गतयस्तलसंधिषु । नाडीजात इति प्राहु: पादरोगं गजस्य तम् ॥ ३३ ॥ कदम्बपुष्पसंस्थानैः कुठारसदृशैस्तथा ॥ दंईभिः कचगुल्मैश्च यदा पादाः समन्ततः ॥ ३४ ॥ द्विरदस्य प्रभिद्यन्ते समन्ताद्गाढवेदनैः ॥ संराष्ट्रकेशं पवनाज्जानीयात्तं नरेश्वरः ।। ३५ ।। श्लेष्मशोणितपित्तानां दोषैमन्यतमं पदा ॥ संगृह्य पॅवनो दुष्टो नखमध्येषु तिष्ठति ॥ ३६ ॥ तदा भित्त्वा नखान्केशा जायन्ते भृशदारुणाः ॥ इत्युक्तं नखभेदस्य शास्रयोगेन लक्षणम् ॥ ३७ ॥ यदा प्रदुष्टः पवनः पित्तमादाय तिष्ठति ॥ ३८ ॥ नखान्तरेषु सर्वेषु विक्कानखशिखासु च ॥ यदा संजायते केशो जापमानश्व पच्यते ॥ ३९ ॥

  • धनुराकारमध्यस्थपाठी (n) पुस्तके वृटितः –

AASAASAASAASSAAAASSSS S S -o १ क, ख. ददुभिः ।। २ क. यवनो ॥ ३ क. °यु पित्त्वा