पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/109

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ पालकाप्यमुनििविरचितो– { १महारोगस्थाने तस्मै वैसापानं दद्यात् । ( *प्रध(ग)मनं चास्य मरिचप्रस्थेन पिप्पल्पर्धप्रस्थेन पृथ्वीकाप्रस्थेन देवदारुशृङ्गवेरसैन्धवैश्व द्विपलिकैरेकैकशः पिट्टै कुर्यात्सप्ता)हम् । यथायोर्ग वा प्रक्षालनमपिं च करस्य प्रसन्नया चिरस्थितया गुग्गुल्वगुरुमधूच्छिष्ठघृतेश्च निवातस्थस्य धूप इष्टः । पुनर्नवातसीशाणबीजमुस्ताकाश्मर्षपिङ्गऐन्पयसि साधयित्वा वन्नोपनद्धेन पिण्डस्बेहेन स्वेपेिदुत्तमाक्लम्, सगदां सफलग्रीवां( वा )श्व बहुशः । प्रपौण्डरीकहरिद्रामनःशिलालोधैश्व तेलं विपाच्य नस्यं दद्यात् । यवसानि यथोक्तानि वातप्रशमनानि च दद्यात् । पायसं सघृतशार्करं भोजयेत् । एतेनोपक्रमेण नश्यति वातिकः शिरोरोगः । इति वातिक: शिरोरोग: ॥ तीक्ष्णोष्णाम्ललवणक्षारकटुकविषमविरुद्धभोजनादुष्णे व्यायामाध्वगमनस्थानशायनैः पित्तं प्रकुपितं शिरोऽवपीड्य तिष्ठञ्शिरोभितापं जनयति ॥ स भवति परिथुष्कताल्चोष्ठमुखः परिहृष्टरोमा पर्यश्रुनयनः । ( शिरस्तापाञ्चास्य कटश्रोतोभ्यां प्रभेदः प्रवर्तते । कराश्चास्य हरिद्रवर्णो: स्रवति दोषः, पच्यते चास्य मुखम्, स्वप्नकामश्च भवति, उष्णशिराः, निमीलिताक्षः, परिशूनान्तनयनः, ) शिरो विधुनोति ( *क्षितितलमभिगम्य, दन्ताभ्यां भूमिं विलिखति, छविश्वास्य भवत्यत्यर्थमुष्णा। तमॆतेर्लिङ्गैः पित्तसमन्वितं शिरोभि ) तापं विद्यात् ॥ तस्य पूर्वोक्त विधिं कारयेत् । सर्पिषपानं च यथायोगं सर्वकालं नागस्य सेकं कुर्यात् । मेदाछिन्नरुहापष्टीमधुकप्रिपङ्कपिप्पली: श्वक्ष्णचूर्णीकृत्य नस्पप्रधमने कुर्यात् । करप्रक्षालनमपि च पयस सृ(झु)तशीतेन कुर्यात् । चन्दनशृङ्गवेरोशीरपद्मकमपीण्डरीकनलदनालिकावार्लकवञ्जुलवेतसवृणं शून्यगुन्द्राणf मूलानि दृषदि पी(पे)षयित्वा कल्र्क पयस्यालोङय शिरः प्रलिम्पेत् । पयस्पाजम्बूमधुकविदारीछिन्नरुहामेदाकर्कटशृङ्गीतालपत्रेीक्षीरेण पिष्ट्राsन्तरिक्षेणाम्भसा (*पयसा च घृतं विपाच्य नस्यं दद्यात् । क्षीरिणश्व ये वृक्षा मधुरकषायाः, तेषां त्वग्रसेनाssमलकीनां च घृतमण्डं विपाच्य नस्यं दद्यात् । पेापस्पं) च घृतयुक्त भोजयेत् । यवसानि च मधुररसवीर्याणि दापयेच्छिरोभितापप्रशा न्त्पर्धम् । 骨 इति पैत्तिक: शिरोरोगः ॥ * धनुराकारचिह्वान्तर्गतपाठः कपुस्तके नास्ति ॥ १ क. वपापा” । २ क. °यङ्कपय° ३ क. °लवकहु°। ४ क. °णमूल्यगु”। ९ क. °त्रीरेणु पि° । ६ ग. पायसं ।