पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/107

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ पालकाप्यमुनिरिचितो– [१महारोगस्थानेतानि दापयेत् । सत्कुमन्थं शर्करागुडघृतबदरसंयुतं पापयेत् । सेचयेख विमलशिशिरसलिलपूर्णर्नवघटैरन्तर्मत्स्यण्डिकैश्व कंवलैभोजयेत् । पीलुपनसमोचनालिकेरपिपालदाडिममृद्वीकाः सलिलैः संक्षुद्य राग्निपर्युषितं फाणितसंस्कृतमेतत्प्रातः पानं पाययेत् । भव्यपारापतमोचकाशीतकानि संक्षुद्य सलिले रात्रिपर्युषितमेतत्पानं पाययेत् ।। रसं च पाययेन्मृगस्य । महिषस्य वा रसेन भुक्त्वा प्रणुति वारिमूर्छाम् ॥ t इति वारिमूछा ॥ सहसाऽतिप्रसक्तस्यातिमात्रयोगादध्वनो मार्गमूर्छा भवति ॥ स तया शूनस्तब्धोष्णगुरुगात्रोंऽश्नानभिलाषी स्वप्नकामो भृशमस्वस्थशरीर: ॥ तस्य सार्पषा सर्वसेक इष्यते । ततः सुखोष्णेन सलिलेन परिषिच्य तिलसर्षपयवचूर्णरुत्कारिकां दंभ्रा सुरया वा पैक्कां (क्त्वा) तया मुखोष्णया प्रलिम्पेत् । मधुफाणितयुक्तानि चास्मै बिसमृणालानीक्षुवेणुपत्राणि च दद्यात् । द्विहस्तमात्राश्रयणं मृदुपांश्चलं मुखशायनमसंबाधं कृत्वा पक्षात्पक्षं निषादपेत् । ततः फाणितसंस्कृतै प्रसन्न पापयेत् । जीर्णमत्स्यरसेन कुकुटरसेन वा भोजयेत् । पेानं च दद्यात् ॥ 傘 इति मार्गपूछ ॥ मद्यं स्थानदोषान्वितमतिवृत्तमजातं विपअं वा पीतवतो मद्यमूछा भवति ॥ स तया वेमति निमीलत्युन्मीलयति, अवलीपते विभ्रमति परिदह्यति मुल्लति संतप्ताङ्गः । तमेवमवस्थं दन्तिनमभिसमीक्ष्य विमलशिशिरसलिले निष्कर्दमे मुतीर्थ हृदे शीतच्छायोपगूढे सतीरपादपे विगाहयेत् । इर्वारुबिसमृणालविदारीदाडिमदधित्थकसेरुकमातुलुङ्गमरिचसौवर्चलसंयुक्तान्कवलान्भोजयेत् । अतसीधूमचूणैर्दधिमस्तूदकसिद्धां सपश्चलवणामम्लां यवागूं मांसरसघुसंस्कृतां पाययेत् । सपञ्चलवणां च प्रसन्नां दद्यात् । दापयेच्च वेत्रगुढसमत्स्यण्डिकोपनाहं कुकुटसंयुकेन मुद्गयूषेण भोजयेत् । ततः संपद्यते सुखी । f इति मद्यमूछ । कुयवसमविशुद्धंदेशजं क्रिमिजुष्टं स्थानदोषान्वितं वा यवसं भुंक्तवतो नागस्य“यवसमूछा भवति । SAMAMMMMMAAASAASAASAASAASAA १ क. कपालैर्मार्जये° । २ क. °त्रोऽन्नपानान°। ३ क. दग्धा । ४ क. पकं । १ गृ. उदकं ॥ ६ क. मवनि ॥ ७ क. °द्धमदे° ॥ ८ क. युक्तवते ।