पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/104

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ मूर्छाध्यायः ] । । “हस्त्यायुर्वेव; 1 ।। ९* तद्यथा--अ(ति)भोजनात्, (अति)विदग्धभोजनात्, आयधान्योपयोगात्, स्नेहात्, वातात्, पित्तात्, कफात्, संनिपातात्, उकिात्, मार्गेगमनात्, मद्यात्, यवसाखेति । - तत्र-अतिभोजनात्कृशस्य सहसा हस्तिनो मूर्छा भवति । ततो निस्तब्धाक्षोऽवसैोति स्तम्भमाश्रयति निःश्वसिति कण्ठेन तिनिति (?) नापते न शक्रोति स्थार्नु कुतो गन्तुम् । निषीदत्यपराभ्याम् । तस्पैतैर्लिङ्गैरतिभोजनसमुत्थां मूछाँ विद्यात् ॥ तं पिप्पलीमरिचेचव्याजमोदपिप्पलीमूलविश्वभेषजविडङ्गतेजोवतीपाठाकुटजचित्रकसूक्ष्यसर्षपपाटलीलथुनवचाहिङ्गुसौवर्चलानां गोमूत्रे कथितानां कार्थ पादावशेषमवतार्य मुखोष्णं पाययेत् । प्रतिपानं च सलवणां सुरां विशुद्धकोष्ठाप दापयेत् । ततः संपद्यते मुखी । इत्यतिभोजनमूछी । अथ विदग्धभोजनोत्पन्नायां मूछाँयां-निपतति, उत्पतति, परिधावति, परिवर्तते, प्रवेपते, भूमौ चक्रवडूमति । तस्मै मरिचशृङ्गवेराटरूषकबिल्वारग्वधदन्तीगण्डीरपिप्पलीभिर्गोमयर्सयुताभिः कवलान्दद्यात् । मस्रन्नां च पश्चलवणसंयुक्तां प्रतिपानं दृद्यात् । इति विदग्धभोजनमूछ । रसं मद्यं वा पीत्वा स यदा धान्यमाममत्यर्थ भक्षयेत् । ततोऽस्य मूछाँ जापते । स तया भूमी चक्रवत्परिवर्तते, निःश्वसिति, आटोपितश्व व्याददाति मुहुर्मु। हुर्मुस्वं स्वं निरीक्षत उत्फुद्धिपर्यश्रुनयनः । तमेवमवस्थं दन्तिनमवेक्ष्य यवभस्मपरिसुतामधैसौवीरकां ससर्पिष्कां सस्वजैिकां पञ्चलवणसंयुक्तां प्रसन्नां पाययेत् । हिङ्गुकुटजपाठाटरूषककटुरोहिणी द्वे हरिद्रे तेजोवतीवचाविडङ्गमुरसार्शियुतिन्दुकमूलबिल्वमूर्वापूतिकातिविषान्सोदयित्व तस्य सपञ्चलवणान्कवलान्दयात्। अथवा पिप्पलीहङ्कसर्षपकुटजपाठाटघ्षककटुरोहिणीविडङ्गेन्द्रयवातिविषाः संक्षुद्य कवलान्भोजयेत् । ततः संपद्यते सुखी । प्रसन्नां च लवणसंयुक्तां पाययेत् । - इति धान्यमूछ । अथ स्नेहपूछॉ । पस्तु केवलं यवसेनेव पुष्टः सहसा कृक्षशारीरः स्नेहं पिबति तस्य स्नेहमूछाँ जापते । १ ग. °चवचाज° ।