पृष्ठम्:HanumannatakamOfDamodaraMisraWithDipikaKhemraj1909.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हनुमन्नाटकं - - द्योतयति । कल्याणानां निधानं निधीयन्ते यस्मिंस्तदिति विग्रहः । कलिमलमथनम्। एतेन पापहारित्वमुक्तम् । कविवरवचसां वाल्मीक्यादिवाचाम् एकं विश्रामस्थानम् । एतेन तदितरस्यासद्वर्णनत्वमुक्तम् । एतेन पत्रयेणहिकैश्वर्यप्रदत्वमुक्तम् । पारलौकि कश्वयप्रदत्वमाह-पावनानां ब्रह्मादीनामपि पावनम् । एतेन तत्तल्लोकप्रदत्वमुक्तम् । अतः पारलौकिकैश्वर्यप्रदत्वमायाति । अथ मोक्षप्रदत्वमाह - परपद्प्राप्तचे परस्मिन्त्र- ह्माण पदं स्थानं तत्प्राप्तये प्रस्थितस्य मुमुक्षाः पाथेयं मार्गे साधु । ननु नाम्नैव मोक्षः कथं धर्मादीनां सत्त्वशोधकत्वेन मोक्षदत्वमिति चेत्तत्राह- धर्मद्रुमस्य वीजम् नान्नेि कीर्तिते सर्वे धर्माः कृता भवन्ति । अथोत्पत्तिवीजे पुप्पफलादिकं सर्वमस्तीति । सज्जनानाम् ' जीवनानाम् ' इति वा पाठः | जीवनं प्रकृतिस्तस्यापि जीवनं चेतनकर्तृ । उक्तं च-'यतो जीवत्वमायाति जीवः प्रकृतितः स्वतः । ' इति । एतैर्विशेषणैर्मो क्षप्रदत्वमुक्तम् ॥ १ ॥ ६ [ अङ्क:- - पातु श्रीस्तनपञ्चभङ्गमकरीमुद्राङ्कितोरःस्थलो देवः सर्वजगत्पतिर्मधुबधूवक्राब्जचन्द्रोदयः । क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्रांकुरे यस्य भू- भति स्म मलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ २ ॥ -- इदानीं वर्णनीयनायकगुणानाह - पात्विति । स देवो विलसनशीलः श्रीरामो वः पातु । कोदृक् । श्रियः स्तनयोर्यः पत्रभङ्गः पत्ररचना तत्र या मकरीमुद्रा तया- ङ्कितोर: स्थलः । एतेन शृङ्गारित्वं सूचितम् । सर्वजगत्पतिः । एतेन रञ्जितलोकत्व- मुक्तम् । पुनः कीदृक् । मधुवधूवक्राण्येवाव्जानि कमलानि तत्संकोचनाय चन्द्रो- दुयः । स कः । यस्य नवेन्दुविशदे द्वितीयचन्द्राकारे दंष्ट्रांकुरे भूर्भाति स्म । क्रीडायै धृता वराहतनुर्येन । किंभूता भूः । प्रलयाव्धिरेव पल्वलमल्पसरस्तस्य तलं तत उत्खातो य एकमुस्तस्तम्बस्तदाकारा । एतेन पदद्वयेनातिकल्पत्वमुक्तम् । उक्तं च रसोदधी- ' दाता सद्गुणशील : सुवयोरूपान्वितः परप्रेमी । विद्यावानतिकल्पो 1 रञ्जितलोको मतोऽनेन ॥ इति ॥ २ ॥ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।