पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः. छायाव्यवहार.. शान्तिर्जिनः शान्तिकरः प्रजानां जगत्प्रभुर्ज्ञातसमस्तभावः' । यः प्रातिहार्याष्टविवर्धमानो नमामि तं निर्जितशत्रुसङ्गम् ॥ १ ॥ आदौ प्राच्याद्यष्टदिक्साधनं प्रवक्ष्यामः - सलिलोपरितलवत्स्थितसमभूमितले लिखेद्वृत्तम् । बिम्बं स्वेच्छाशङ्कुद्दिगुणितपरिणाहसूत्रेण ॥ २ ॥ तद्वृत्तमध्यस्थतदिष्टशङ्को- श्छाया दिनादौ च दिनान्तकाले । तद्वृत्तरेखां स्पृशति क्रमेण पश्चात्पुरस्ताच्च ककुप् प्रदिष्टा ॥ ३ ॥ तद्दिग्यान्तर्गततन्तुना लिखे- न्मत्स्याकृतिं याम्यकुबेरदिक्स्थाम् । तत्कोणमध्ये विदिशः प्रसाध्या- श्छायैव याम्योत्तरदिग्दिशार्वजाः ॥ ४ ॥ अजघठरविसङ्क्रमणद्युदलजभैक्यार्धमेव विषुवद्भा ॥ ४३॥ लङ्कायां यवकोट्यां सिद्धपुरीरोमकापुर्योः । विषुवद्भा नास्त्येव त्रिंशद्घटिकं दिनं भवेत्तस्मात् ॥ १३॥ देशेष्वितरेषु दिनं त्रिंशन्नाड्याधिकोनं स्यात् । मेषघटायनदिनयोस्त्रिंशद्घटिकं दिनं हि सर्वत्र ॥ ६ ॥ दिनमानं दिनदलभां ज्योतिश्शास्त्रोक्तमार्गेण । ज्ञात्वा छायागणितं विद्यादिह वक्ष्यमाणसूत्रौघैः ॥ ७॥ 1 M reads तत्त्व:.