पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छायाव्यवहारः. विषुवच्छाया यत्रयत्र देशे नास्ति तत्रतत्र देशे इष्टशङ्कोरिष्टकाल च्छायां ज्ञात्वा तत्कालानयनसूत्रम्- छाया सैका द्विगुणा तथा हृतं दिनमितं च पूर्वाह्ने । अपराह्णे तच्छेषं विज्ञेयं सारसङ्ग्रे गणिते ॥ ८ ॥ अत्रोद्देशकः । पूर्वाह्ने पौरुषी, छाया त्रिगुणा वद कि गत । अपराह्णेऽवशेषं च दिनस्यांशं वद प्रिय || ९ || दिनांशे जातं सतिं घटिकानयनसूत्रम्- अंशहतं दिनमानं छेदविभक्तं दिनांशके जाने । पूर्वाह्णे गतनाड्यस्त्वपराह्णे शेषन|ज्यस्तु ॥ १० ॥ अत्रोद्देशकः । 153 विषुवच्छायाविरहितदेशेऽष्टांशो दिनस्य गतः । शेषश्राष्टांशः का घटिकाः स्युः खाग्निनाड्योऽह्नः ॥ ११ ॥ मल्लयुद्धकालानयनसूत्रम्- कालानयनाद्दिनगतशेषसमासोनितः कालः । रतम्भच्छाया स्तम्भप्रमाणभक्तैव पौरुषी छाया॥ १२ ॥ अत्रोद्देशकः । पूर्वाह्ने शङ्कुसमच्छायायां मछयुद्धमारब्धम् । अपराह्णे द्विगुणायां समाप्तिरातीच्च युद्धकालः कः ॥ १३३ ॥ अपरार्धस्वोदाहरणम् | द्वादशहस्तस्तम्भच्छाया चतुरुतरैव विंशतिका । तत्क।ले पौरुपिकच्छाया कियती भवेद्गणक ।। १४ ।।