पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्र गणित व्यवहारः. दिनगतिकृतिसंयोगं दिनगतिकृत्यन्तरेण हृत्वाथ । हत्वोदग्गतिदिवसैस्तब्धदिने समागम: स्यान्नोः ॥ २१ अत्रोद्देशकः । हे योजने प्रयाति हि पूर्वगतिस्त्रीणि योजनान्यपरः । उत्तरतो.गच्छति यो गत्वासौ तद्दिनानि पञ्चाथ ॥ २११ ॥ गच्छन् कर्णाकृत्या कतिभिदिवसैर्नरं समाप्रोति । उभयोर्युगपद्गमनं प्रस्थानदिनानि सदृशानि ॥ २१२३ ॥ पश्वविधचतुरश्रक्षेत्राणां च त्रिविधत्रिकोणक्षेत्राणां चेत्यष्टविधबाह्य- वृत्तव्याससङ्ख्यानयनसूत्रम्-- श्रुतिरवलम्बकभक्ता पार्श्वभुजघ्ना चतुर्भुजे त्रिभुजे । भुजघातो लम्बहृतो भवेद्बहिर्वृत्तविष्कम्भः ॥ २१३ ॥ अत्रोद्देशकः । समचतुरश्रस्य त्रिकबाहुप्रतिबाहुकस्य चान्यस्य | कोटिः पश्च द्वादश भुजास्य किं वा बाहेर्वृत्तम् ॥ २१४॥ बाहू त्रयोदश मुखं चत्वारि धरा चतुर्दश प्रोक्ता | द्विसमचतुरश्रबाहिरविष्कम्भः को भवेदत्र॥ २१५३॥ पञ्चकृतिर्वदनभुजाश्रत्वारिंशन्च भूमिरेकोना । त्रिसमचतुरश्रबाहिरवृत्तव्यासं ममाचक्ष्व ॥ २१६३॥ व्येका चत्वारिंशद्वाहुः प्रतिबाहुको द्विपश्चाशत् । षष्टिर्भूमिर्वदनं पश्चकृतिः कोऽत्र विष्कम्भः ॥ २१७ ॥ त्रिसमस्य च षड् बाहुस्त्रयोदश द्विसमबाहुकस्यापि । भूमिर्दश विष्कम्भावनयोः कौ बाह्यवृत्तयोः कथय ॥ २१८ ॥ 13. 139