पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रह:- इयं व्युत्क्रमेण निक्षिप्य तद्व्युत्क्रमं न्यस्ताबाधाद्वयमेव आयतचतुरश्रक्षेत्र. द्वये कोठिद्वयं परिकल्प्य तत्कर्णद्वयस्य समानसङ्ख्यानयनसूत्रम्- डोलाकार क्षेत्रस्तम्भद्वितयोर्ध्वसङ्ख्ये वा । 138 शिखरिद्वयोर्ध्वसङ्ख्ये परिकल्प्य भुजद्दयं त्रिकोणस्य || २०१३ ॥ तहोर्द्वितयान्तरगतभूसङ्ख्यायास्तदाबाचे । आनीय प्राश्र्वत्ते व्युत्क्रमनः स्थाप्य ते कोटी ॥ २०२३ ।। स्यातां तस्मिन्नायतचतुरश्चक्षेत्रयोश्च तद्दोर्भ्याम् । कोटिभ्यां कर्णौ ह्रौ प्राग्वत्स्यातां समानसङ्ख्यौ तौ ॥ २०३३ ॥ अत्रोद्देशकः । स्तम्भस्त्रयोदशैकः पञ्चदशान्यचतुर्दशान्तरितः । रज्जर्बद्धा शिखरे भूमीपतिता क' आबाधे || रज्जू समतङ्ख्ये स्यातां तद्रज्जुमानमपि कथय ॥ २०५ ॥ द्वाविंशतिरुत्सेधो गिरेस्तथाष्टादशान्यशैलस्य । विंशतिरुभयोर्मध्ये तयोश्च शिखयोस्स्थितौ साधू ॥ २०६ ॥ आकाशचारिणौ तौ समागतौ नगरमत्र भिक्षायै । समगतिकौ सञ्जातौ तत्राबाधे कियत्सङ्ख्ये || समगतिसङ्ख्या कियती डोलाकारेऽत्र गणितज्ञ ॥ २०७३॥ विंशविरेकस्योन्नतिरद्रेश्व जिनास्तथान्यस्य | तन्मभ्यं द्वाविंशतिरनयोरयोश्च शृङ्गयोः स्थित्वा || २०८३ ।। आकाशचारिणौ द्वौ तन्मध्यपुरं समायातौ । भिक्षायै समगतिकौ स्यातां तन्मध्यशिखरिमध्यं किम् ॥ २०९ ॥ विषमात्रकोणक्षेत्ररूपेण हीनाधिकगतिमतोर्नरयोः समागमदिन सङ्ख्यानयनसूत्रम् – 1. क आबाचें is grammatically incorrect sunce there can be no sandias between के in the dual number and आबाघे; vide footnote on page 136.