पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः. बाहू पञ्चञ्युत्तरदशकौ भूमिश्चतुर्दशो विषमे । त्रिभुजक्षेत्रे बाहिरवृत्तव्यासं ममाचक्ष्व ।। २१९ ॥ द्विकबाहुषडश्रस्य क्षेत्रस्य भवेद्विचिन्त्य कथय त्वम् । बाहिरविष्कम्भं मे ‘वैशाचिकमत्र यदि वेत्सि ॥ २२०३॥ इष्टसङ्ख्याव्यासवत्समवृत्तक्षेत्रमध्ये समचतुरश्राद्यष्टक्षेत्राणां मुख भूभुजसङ्ख्यानयनसूत्रम्- लब्धव्यासेनेष्टव्यासो वृत्तस्य तस्य भक्तश्च । लब्धेन भुजा गुणयेद्भवेच्च जातस्य भुजसङ्ख्या || २२१३ ।। अत्रोद्देशकः । 140 वृत्तक्षेत्रव्यातस्त्रयोदशाभ्यन्तरेऽत्र सञ्चिन्त्य । समचतुरश्राद्यष्टक्षेत्राणि सरखें ममाचक्ष्व ॥ २२२३॥ आयतचतुरश्रं विना पूर्वकल्पित चतुरश्रादिक्षेत्राणां सूक्ष्मगणितं च रज्जुसङ्ख्यां च ज्ञार्त्वा तत्तत्क्षेत्राभ्यन्तरावस्थितवृत्तक्षेत्र विष्कम्मानयन - सूत्रम्- परिधेः पादेन भजेदनायतक्षेत्रसूक्ष्मगणितं तत् । क्षेत्राभ्यन्तरवृत्ते विष्कम्भोऽयं विनिर्दिष्टः॥ २२३३ ॥ अत्रोद्देशकः । समचतुरश्रादीनां क्षेत्राणां पूर्वकल्पितानां च । कृत्वाभ्यन्तरवृत्तं ब्रूह्यधुना गणिततत्त्वज्ञ ॥ २२४३ ॥ समवृत्तव्याससङ्ख्यायामिष्टसङ्ख्यां बाणं परिकल्प्य तद्वाणपरि- माणस्य ज्यासङ्ख्यानयनसूत्रम --