पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणित व्यवहारः इतः परं पश्चप्रकाराणां चतुरश्रक्षेत्राणां कर्णानयनसूत्रम् - क्षितिहतविपरीतभुजौ मुरवगुणभुजमिश्रितौ गुणच्छेदौ । छेदगुणौ प्रतिभुजयोः संवर्गयुनेः पदं कर्णौ ॥ १४ ॥ 117 अत्रोद्देशकः । समचतुरश्रस्य त्वं समन्ततः पञ्चबाहुकत्याशु | कर्णं च सूक्ष्मफलमपि कथय सरवे गणिततत्त्वज्ञ ॥ ५५ ॥ आयतचतुरश्रस्य द्वादश बाहुश्च कोटिरपि पञ्च । कर्णः कः सूक्ष्मं किं गणितं चाचक्ष्व मे शीघ्रम् ।। १६ ।। द्विसमचतुरश्रभूमिः षट्त्रिंशद्वाहुरेकषाष्टिश्च । सोऽन्यश्चतुर्दशास्यं कर्णः कः सूक्ष्मगणितं किम् ॥ १७ ॥ वर्गस्त्रयोदशानां त्रिसमचतुर्बाहु के पुनर्भूमिः । सप्त चतुश्शतयुक्तं कर्णाबाधावलम्बगणितं किम् ॥ १८ ॥ विषमचतुरश्रबाहू त्रयोदशाभ्यस्त पश्चदशुविंशतिको । पश्चघनो वदनमधस्त्रिशतं कान्यत्र कर्णमुखफलानि ॥ ५९ ॥ इतः परं वृत्तक्षेत्राणां सूक्ष्मफलानयनसूत्राणि । तत्र समवृत्तक्षेत्रस्य सूक्ष्मफलानयनसूत्रम् वृत्तक्षेत्रव्यासो दशपदगुणितो भवेत्परिक्षेपः । व्यासचतुर्भागगुणः परिधिः फलमर्धमर्धे तत् ॥ ६० ॥ अत्रोद्देशकः । समवृत्तव्यासोऽष्टादश विष्कम्भव पष्टिरन्यस्य | द्वाविंशतिरपरस्त्र क्षेत्रस्य हि के च परिधिफले ।। ६१ ॥ द्वादशविष्कम्भस्य क्षेत्रस्य हि चार्धवृत्तस्य । षट् त्रिंशद्वयासस्य कः परिधिः किं फलं मवृति ॥ ॥ ३२ ॥