पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः -आयतवृत्तक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्- व्यासकृतिष्षमाणिता द्विसङ्गणायामकृतियुता (पद) परिधिः । व्यासचतुर्भागगुणश्चायतवृत्तस्य सूक्ष्मफलम् ॥ १३ ॥ अत्रोद्देशकः । 118 आयतवृत्तायामः शट्त्रिंशद्वादशास्य विष्कम्भः | कः परिधिः किं गणितं सूक्ष्मं विगणय्य मे कथय ॥ ३४ ॥ शङ्खाकारक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्- वदनार्धोनो व्यासो दशपदगुणितो भवेत्परिक्षेपः । मुखदलरहितव्यासार्धवर्गमुस्वचरणकृतियोगः ॥ ६५ ॥ दशपदगुणितः क्षेत्रे कम्बुनिभे सूक्ष्मफलमेतत् ।। ६५३ ॥ अत्रोद्देशकः । व्यासोऽष्टादश दण्डा मुखविस्तारोऽयमपि च चत्वारः । कः परिधिः किं गणितं सूक्ष्मं तत्कम्बुकावृत्ते ॥ ६६३॥ बहिश्चक्रवालवृत्तक्षेत्रस्य चान्तश्चक्रवालवृत्तक्षेत्रस्य च सूक्ष्मफलानय- नसूत्रम्- निर्गमसहितो व्यासो दशपदनिर्गमगुणो बहिर्गणितम् | रहितोऽधिगमेनासावभ्यन्तरचक्रवालवृत्तस्य ॥ ६७३ ॥ अत्रोद्देशकः । व्यासोऽष्टादश दण्डाः पुनर्बहिनिर्गतास्त्रयो दण्डाः । सूक्ष्मगणितं वद त्वं बहिरन्तश्चक्रवालवृत्तस्य || ६८३ ॥ व्यासोऽष्टादश दण्डा अन्तःपुनरधिगताश्च चत्वारः । सूक्ष्मगणितं वद त्वं चाभ्यन्तरचक्रवालवृत्तस्य || ६९३ ॥