पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

116 गणितसारसङ्ग्रहः अत्रोद्देशकः । पञ्चदशबाहुकस्य क्षेत्रस्याभ्यन्तरं बहिर्गणितम् । चतुरश्रस्य च वृत्तव्यवहारफलं ममाचक्ष्व ॥ ४८ ।। इति व्यावहारिकगणितं समाप्तम् । अथ सूक्ष्मगणितम्. इतः परं क्षेत्रगणिते सूक्ष्मगणितव्यवहारमुदाहरिष्यामः । तद्यथा' आबाधावलम्बकानयनसूत्रम्- भुजकृत्यन्तरभूहृतभूसङ्क्रमणं त्रिबाहुकाबाधे । तद्भुजवर्गान्तरपदभवलम्बकमाहुराचार्याः ॥ ४९ ।। सूक्ष्मगणितानयनसूत्रम्- भुजयुत्यर्धचतुष्का हुजहीना दाता सूक्ष्मम् । अथवा मुखतलयुति दलमवलम्बगुणं न विषमचतुर ॥ ५० ॥ अत्रोद्देशकः । त्रिभुजक्षेत्रस्याष्टौ दण्डा मूर्बाहुकौ समस्य त्वम् । सूक्ष्मं वद गणितं मे गणितविदवलम्बकाबाधे ॥ ११ ॥ द्विसमत्रिभुजक्षेत्रे त्रयोदश स्युर्भुजद्वये दण्डाः । दश भूरस्याबाधे अथावलम्बं च सूक्ष्मफलम् ॥ १२ ॥ विषमत्रिभुजस्य भुजा त्रयोदश प्रतिभुजा तु पश्चदश । भूमिश्चतुर्दशास्य हि किं गणितं चावलम्बकाबाधे ॥ १३ ॥ 1 After this M adds the following क्षेत्रभुज क्षेत्रस्य भुजद्वयसयोगस्थानमारभ्य अवस्थित भूमिसंस्पृटरेखाय' नाम अवलम्बकः स्यात् ।