पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः स्वदृढक्षयेण वर्णो प्रकल्पयेत्प्राग्वदेव यथा। एवं तद्द्वययोरप्युभयं साम्यं फलं भवेद्यदि चेत् ॥ २१०॥ प्राक्कल्पनेष्टवर्णी गुलिकाभ्यां निश्चयौ भवतः | नो चेत्प्रथमस्य तदा किञ्चिन्यूनाधिकौ क्षयौ कृत्वा ॥ २११ ॥ तत्क्षयपूर्वंक्षययोरन्तरिते शेषमत्र संस्थाप्य । त्रैराशिकविधिलब्धं वर्णौ तेनोनिताधिकौ स्पष्टौ ॥ २१२ ॥ अत्रोद्देशकः । 93 स्वर्ण परीक्षकवणिजौ परस्परं याचितौ ततः प्रथमः । अर्ध प्रादात् तामपि गुलिकां स्वसुवर्ण आयोज्य ॥ २१३ ॥ वर्णदशकं करोमीत्यपरोऽवादीत् त्रिभागमात्रतया । लब्धे तथैव पूर्ण द्वादशवर्णं करोमि गुलिकाभ्याम् ॥ २१४ ।। उभयोः सुवर्णमाने वर्णौ सचिन्त्य गणिततत्त्वज्ञ | सौवर्णगणितकुशलं यदि तेऽस्ति निगद्यतामाशु ॥ २१५॥ इति मिश्रकव्यवहारे सुवर्णकुट्टीकारः ममाप्तः || विचित्रकुट्टी कारः । इतः परं मिश्रकव्यवहारं विचित्रकुटीकारं व्याख्यास्याम सत्यानृतसूत्रम्- पुरुषाः सैकेष्टगुणा द्विगुणेष्टोना भवन्त्यसत्यानि । पुरुषकृतिस्तैरूना सत्यानि भवन्ति वचनानि || २१६ ।। अत्रोद्देशकः । कामुकपुरुषाः पञ्च हि वेश्यायाश्च प्रियास्त्रयस्तत्र | प्रत्येकं सा ब्रूते त्वमिष्ट इति कानि सत्यानि ॥ २१७ ॥