पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94 गणितसारसङ्ग्रहः प्रस्तारयोगभेदस्य सूत्रम् -- एकाद्येकोत्तरतः पदमूर्ध्वाधर्यतः क्रमोत्क्रमशः । स्थाप्य प्रतिलोमघ्नं प्रतिलोमन्नेन भाजितं सारम् ॥ २१८ ॥ अत्रोद्देशकः । वर्णाश्चापि रसानां कषायतिक्ताम्लकटु कलवणानाम् । मधुररसॅन युतानां भेदान् कथयाधुना गणक ॥२१९॥ वज्रेन्द्रनीलमरकतविद्रुममुक्ताफलैस्तु रचितमालायाः । कति भेदा युतिभेदात् कथय सरवे सम्यगाशु त्वम् ॥ २२०॥ केतक्यशोकचम्पकनीलोत्पलकुसुमरचितमालायाः । कति भेदा युतिभेदात्कथय सखे गणिततच्वज्ञ || २२१ ।। ज्ञाताज्ञातला मैर्मूलानच नसूत्र-- लाभोनामश्रराशेः प्रक्षेपकतः फलानि संसाध्य । तेन हृतं तल्लुब्धं मूल्यं त्वज्ञातपुरुषस्य || २२२ ॥ अत्रोद्देशकः । समये केचिद्वणिजस्त्रयः क्रयं विक्रयं च कुर्वीरन् । प्रथमस्य षट् पुराणा अष्टौ मूल्यं द्वितीयस्य || २२३ ॥ न ज्ञायते तृतीयस्य व्याप्तिस्तैर्नरैस्तु षण्णवतिः । अज्ञातस्यैव फलं चत्वारिंशद्धि तेनाप्तम् ॥ २२४ ॥ कस्तस्य प्रक्षेपो वणिजोरुभयोर्भवेच्च को लाभः । प्रगणय्याचक्ष्व सखे प्रक्षेपं यदि विजानासि ॥ २२५ ॥ भाटकानयनसूत्रम्— भरभृतिगतगम्यहतिं त्यक्त्वा योजनदलघ्नभारकृतेः । तन्मूलोनं गम्बच्छिन्नं' गन्तव्यभाजितं सारम् ॥ २२६ ।। M and B add त here metaically at is faulty.