पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

92 गणितसारसङ्ग्रहः एतेषां वर्णानां पृथक् पृथक् वर्णमानं किम् || २०१ ॥ विनिमयगुणवर्णकनकलाभानयनसूत्रम्— स्वर्णघ्नवर्णयुतिहृतगुणयुतिमूलक्ष यन्नरूपोनेन । आप्तं लब्धं शोध्यं मूलधनाच्छेषवित्तं स्यात् ।। २०२ ॥ तल्लुब्धमूलयोगाद्विनिमयगुणयोगभाजितं लब्धम् । प्रक्षेपण गुणितं विनिमयगुणवर्णकनकं स्यात् || २०३ || अत्रोद्देशकः । कश्चिद्वणिक् फलार्थी षोडशवर्णं शतद्वयं कनकम् । यत्किञ्चिद्विनिमयकृतमेकाद्यं द्विगुणितं यथ क्रमशः।। २०४॥ द्वादशवसुनवदशकक्षयकं लाभो द्विरग्रशतम् । शेषं किं स्वाद्विनिमयकांस्तेषां चापि मे कथय । २०५॥ दृश्यसुवर्णविनिमयसुवर्णैर्मूलानयनसूत्रम्- विनिमृयवर्णेनाप्तं स्वांशं त्वेष्टक्षयघ्नसंमिश्रात् । अंशैक्योनेनातं दृश्यं फलमत्र भवति मूलधनम् ॥ २०६ ॥ अत्रोद्देशकः । वणिजः कंचित् षोडशवर्णकसौवर्णगुलकमाहृत्य । त्रिचतुःपञ्चमभागान् क्रमेण तस्यैव विनिमयं कृत्वा ॥ २०७|| द्वादशदशनववर्णैः संयुज्य च पूर्वशेषेण । मूलेन विना दृष्टं स्वर्णसहस्रं तु किं मूलम् ॥ २०८ ॥ इष्टांशदानेन इष्टवर्णानयनस्य तदिष्टांशकयोः सुवर्णानयनस्य च सूत्रम् - अंशाप्तैकं व्यस्तं क्षिप्त्वेष्टघ्नं भवेत् सुवर्णमयी । सा गुलिका तस्या अपि परस्परांशाप्तकनकस्य ||२०९ ॥