पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

84 गणितसारसङ्ग्रहः अत्रोद्देशक । नवानां मातुलुङ्गानां कपित्थानां सुगन्धिनाम् । सप्तानां मूल्यसम्मिश्रं सप्तोत्तरशतं पुनः ॥ १४०३ ॥ सप्तानां मातुलुङ्गानां कपित्थानां सुगन्धिनाम् । नवानां मूल्यसम्मिश्रमेकोत्तरशतं पुनः || १४१३ ॥ मूल्ये ते वद मे शीघ्रं मातुलुङ्गकपित्थ्योः । अनयोर्गणक त्वं मे कृत्वा सम्यक् पृथक् पृथक् ॥ १४२३ ॥ बहुराशिमिश्रतन्मूल्यमिश्र विभागसूत्रम्- इष्टन्नफलैरूनितलाभादिष्टाप्तफलमस कृत् । तैरूनितफऴपिण्डसच्छेदा गुणयुतास्तदर्धास्स्युः || १४३३ ॥ अत्रोद्देशकः । अथ मातुलुङ्गकदलीकंपित्थदाडिमफलानि मिश्राणि । प्रथमस्य सैकविंशतिरथ द्विरग्रा द्वितीयस्य || १४४३॥ विंशतिरथ सुरभीणि च पुनस्त्रयोविंशतिस्तृतीयस्य । तेषां मूल्यसमासस्त्रिसप्ततिः किं फलं कोऽर्घः ॥ १४५३॥ जघन्योनमिऴितराश्यानत्रनसूत्रम्- पण्यहृताल्पफलोनैश्छिन्द्यादल्पन्नमूल्यहीनेष्टम् । कृत्वा तावत्खण्डं तदूनमूल्यं जघन्यपण्यं स्यात् || १४६३ ॥ अत्रोद्देशकः । द्वाभ्यां त्रयो मयूरास्त्रिभिश्च पारावताश्च चत्वारः | हंसाः पञ्च चतुर्भिः पञ्चमिरथ सारसाषट् च ॥ १४७३ ॥