पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः यत्रार्घस्तत्र सखे षट्पञ्चाशत्पणैः खगान् क्रीत्वा । द्वासप्ततिमानयतामित्युक्त्वा मूलमेवादात् । कतिभिः पणैस्तु विहगाः कति विगणय्याशु जानीयाः॥ १४९ ॥ त्रिभिः पणैः शुण्ठिपलानि पञ्च चतुर्भिरेकादश पिप्पलानाम् । अष्टाभिरेकं मरिचस्य मूल्यं षष्ट्यानयाष्टोत्तरषष्टिनाशु ॥ १५० ।। इष्टार्थैरिष्टमूल्यैौरष्टवस्तुप्रमाणानयनसूत्रम् – मूल्यघ्नफलेच्छागुणपणान्तरेष्टन्नयुतिविपर्यासः । द्विष्ठः स्वधनेष्टगुणः प्रक्षेपककरणमवशिष्टम् ।। १५१ ।। अत्रोद्देशकः । त्रिभिः पारावताः पञ्च पञ्चभिस्सप्त सारसाः । सप्तभिर्नव हंसाश्र नवभिश्शिखिनस्त्रयः ॥ १५२ ।। क्रीडार्थं नृपपुत्रस्य शतेन शतमानय । इत्युक्तः प्रहितः कश्चित् तेन किं कस्य दीयते ॥ ११३ ।। व्यस्तार्घपण्यत्रमाणानयनसूत्रम् - 85 पण्यैक्येन पणैक्यमन्तरमतः पण्येष्टपण्यान्नरै- श्छिन्द्यात्सङ्क्रमणे कृते नदुभयोरर्घौ भवेतां पुनः । पण्ये ते खलु पयोगविवरे व्यस्तं तयोरर्घयोः प्रश्नानां विदुषां प्रसादनमिदं सूत्रं जिनेन्द्रोदितम् || १५४ ॥ अत्रोद्देशकः । आद्यमूल्यं यदेकस्य चन्दनस्यागरोस्तथा । पलानि विंशतिर्मिश्रं चतुरशतं पणाः ॥ १५५ ।। Not found in any of the MSS. consulted.