पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः विषमकुठ्ठीकारः ॥ इतः परं विषमकुट्टीकारं व्याख्यास्यामः । विषमकुट्टी कारस्य सूत्रम् -- 83 मतिसङ्गणिती छेदी योज्योनत्या राशिहतौ । भिन्ने कुट्टीकारे गुणकारोऽयं समुद्दिष्टः || १३४३ ॥ अत्रोद्देशकः ः । राशि: षट्रेन हतो दशान्वितो नवहतो निरवशेषः । दशभिर्हीनश्च तथा तद्गुणको' को ममाशु सङ्कथय ॥ १३५३ ॥ मकलकुट्टीकारः ॥ सकलकुट्टीकारस्य सूत्रम् भाज्यच्छेदाग्रशेषैः प्रथमहतिफलं त्याज्यमन्योन्यभक्तं न्यस्यान्ते साग्रमूर्ध्वेरुपरिगुणयुतं तैस्समानासमाने । स्वर्णनं व्याप्तहारौ गुणधन मृणयो श्राधिकाग्रस्य हार हृत्वा हृत्वा तु साम्रान्तरथनमधिकायान्वितं हारघातम् || १३३३ ॥ अत्रोद्देशकः । सप्तोत्तरसतत्या युतं शतं योज्यमानमष्टत्रिंशत् । सैकशतद्वयभक्तं को गुणकारी भवेदत्र || १३७३ ॥ पश्चत्रिंशत् व्युत्तरपोडशपदान्येव हाराय । द्वात्रिंशद्व्यधिकैका व्युत्तरतोऽग्राणि के धनर्णगुणाः || १३८ ॥ अधिकाल्पराश्योर्मूलमिश्रविभागसूत्रम् -- ज्येष्ठन्नमहाराशेर्जघन्यफलताडितोनमपनीय । फलवर्गशेषभागो ज्येष्ठार्घोऽन्यो गुणस्य विपरीतम् ॥ १३९३ ॥ B मुणकारों.