पृष्ठम्:Dvisandhanam kavya.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । २२१ लक्ष्म्या दारिश्ण अपेतः परित्यक्तः यतो यनपर उद्यमी विष्णुः क्षमातले धरातले इत्या दीप्त्या अत्रपु अलजं निःशहू यथा स्यात्तथा आयन् आगच्छन् सन् कं पुरुष तया लक्ष्म्या आशु शीघ्रम् न आरेभे । अपि तु सर्वमुत्सुकीकृतवान् ॥ श्रीधीनीतिस्थितिप्रीतेरुद्धेतिरुचितोदिति । एषोऽजैषीद्विषो रोषै रुद्धेति रुचितोदिति ॥ १२३ ॥ __ (च्युतायोगवाहकण्ठ्यः समपादयमकः) श्रीति ॥ श्रीधीनीतिस्थितिप्रीतः श्रिया धिया नीतेरनिन्द्यस्थितेश्च प्रीतेः चितो योग्य उद्धेतिरुत्खातशत्रः एष विष्णुः इत्युक्तप्रकारापेक्षया रुचितोदिति इंहितोदयं यथा स्यात्तथा रोषै रुद्धा संवृत्य अदिति अखण्डं यथा स्यात्तथा द्विषः शत्रून् अजैषी. जितवान् । श्रीतः सुरकुलं हीनमत्रासीदक्षमोहितम् । क्षात्रं तु वृत्ततः क्षिप्तमत्रासीदक्षमोहितम् ।। १२४ ॥ (समपादयमकम्) श्रीत इति ॥ सुरकुलं देववृन्दै श्रीतः श्रियाः सकाशाद्धीनं सदक्षमोहितम् अक्षेषु स्पर्शन-रसन-घ्राण-चक्षु-श्रोत्रेन्द्रियेषु मोहितं तदीयव्यापारनि तम् । विष्णोविभूतिमालोक्य लज्जितमासीत् । तथा अत्रलोके तु क्षानं क्षत्रियसमूहो वृत्तत आचरणात् क्षिप्तं सदक्षमोहितं न विद्यते क्षमाया:पृथ्व्या उहितं वितर्कणं यस्य तादा सदत्रासीत् त्रस्तम् । सर्वकर्माणमूर्ध्वज्ञं दूतमुधुक्तविक्रमम् । प्रहित्याश्वमपि म्लेच्छस्त्रीराज्यं तमशुश्रुवत् ॥ १२५ ॥ ___ सर्वेति ॥ सर्वकर्माण सर्वकार्यसमर्थम् उर्ध्वज्ञमूर्ध्वजानुकम् उद्युक्तविक्रम समर्थविशिष्ट- पादम् आश्वमश्वसंबन्धिबलं (कर्ट)सर्वकर्माणम्, उर्ध्वज्ञम् उत्तरफलज्ञातारम्, उद्युक्तवि- क्रमं प्रयुक्तपराक्रमं दूतं प्रहित्य प्रेष्य तं विष्णुम् (प्रयोज्यकर्म) म्लेच्छस्त्रीराज्यं म्लेच्छानां क्षत्रियाणामेव स्त्रीणां स्त्रीभूतानां राज्यम् अपि अशुश्रुवत् श्रावितवत् ॥ प्रजिध्युः पार्वतीयाश्च चामरं दन्तमौषधिम् । .. चित्तेन कार्मणेनापि द्विषन्तो न तमद्विषुः ॥ १२६ ॥ प्रजिध्युरिति ॥ पार्वतीयाः पर्वतोद्भवाश्चामर दन्तम् औषधिम् प्रजिध्युः प्रेषितवन्तः । तथा कार्मणेन कर्मप्रयुक्तेन चित्तेन द्विषन्तोऽपि तं विष्णु न अद्विषुः ॥ समयाचक्रिरे खेयं केऽरिमूलं यदम्बुधीन् । समया चक्रिरेखेयमलया सामवायिकैः ॥ १२७ ।। (समपादयमकम्) Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२३१&oldid=234754" इत्यस्माद् प्रतिप्राप्तम्