पृष्ठम्:Dvisandhanam kavya.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । लून खलीकृतं नैव कष्टं न द्विगुणीकृतम् । तथापि यानेशालेयक्षेत्राणि ददिरे फलम् ॥ ११८ ।। लूनमिति ॥ यद्यपि क्षेत्र नं छिन्नम्, नैव खलीकृतमखलं खलं धान्यमर्दनभूमिः कृतम् । तथा कृष्ट कर्षणीकृतम्, नैव द्विगुणाकृतं द्विाहितम् । तथापि यानेशालेयक्षे- त्राणि यानेशानां यानेश्वराणाम् आलेयानामालिमतां शत्रूणां क्षेत्राणि फलं ददिरे ॥ यद्वा तथापि शालेयक्षेत्राणि शालिभवनक्षेत्राणि याने प्रयाणे फलं ददिरे ।। अमरः खचरश्चक्रमत्रसत्समनद्ध तम् । कश्च पश्यञ्जगच्चक्रमत्र सत्समनद्धतम् ॥ ११९॥ (समपादयमकम्) अमर इति ॥ कश्च कोऽपि अमरो देवः खचरो विद्याधरः अत्र सङ्कामे हतं तं प्रति- विष्णुम्, चक्रम् (सुदर्शनाभिधम्) असत् उद्वेगमगच्छत् सत् समीचीनं सर्वक्लेशरहितम्, समनत् समुच्छसत् समुल्लसत् जगञ्चक्रम् , पश्यन् सन् समनद्ध संनद्धवान् । अपि तु न कोऽपि ॥ येऽमी मायामयायामाः शाजमारोप्य तैरयम् । शरैः शशार शूरोऽरीन्प्राप्य शैलमहागुहाः ॥ १२० ॥ येऽमी इति ॥ अयं शूरो विष्णुः शैलमहागुहाः पर्वतबृहत्कन्दरान् प्राप्य शाई धनुः आरोप्य येऽमी शरा मायामयायामाः मायानिर्माणदैाः सन्ति, तैः शरैः अरीन् शशार इतवान् ॥ कन्याहेमपुरो लेभे मायी यायात्र कातरे। शुद्ध्यानपेतो यामायानयं यातोऽयमक्षत ॥ १२१ ॥ कन्येति ॥ मायी मायावी अत्र रणे याया अतिशयेन गमनशीलः कातरे भीरी शुब्बानपेतोऽपरित्यक्तोऽयं शुभावहविधि यातः प्राप्तः विष्णुर्या शुद्धिमायान् आगच्छन् सन् यं कातरम् अक्षत इतवान् स कन्याहेमपुरस्तनयासुवर्णपुराणि लेभे प्राप्तवान् । कमाशु न तयारेभे न्यायीच्यायन्क्षमातले। हेयानयामयाकारोमयापेतो यतोत्रपु ॥ १२२ ॥ ___ (अर्धभ्रमगर्भश्लोकः) कमिति ॥ न्यायी नीतिमान् हेयानयामयाकारो हेयस्य अनयस्यैवामयस्येवाकारो यस्य ताहक हेयानां शत्रुणामानानां याममुपरमं विध्वंसं याति प्राप्नोतीवाकारो यस्य, तादृग् हेयः परित्याज्यैरानैः प्राणै यायते प्राप्यते तादृश्या अया मर्यादायां श्रियां कीर्ता- वाकारः कीर्यते बुधैः' इत्युक्तेः कील् निर्वत आकारो यस्य ताहम् वा, अमया न मया Diginized b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२३०&oldid=234732" इत्यस्माद् प्रतिप्राप्तम्