पृष्ठम्:Dvisandhanam kavya.pdf/१९४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१८४ काव्यमाला। स विपनवन्धुमुपदृश्य नृपजनमशेषमंशुमान् । दुःखजलमवतरीतुमिव प्रतिपश्चिमार्णवसर्ट व्यलम्बत ॥ २२ ॥ स इति ॥ सोऽशुमान् । विपनबन्धु भृतबन्धुमशेष नृपजनमुपदृश्य दृष्ट्वा दुःखजलं दुःखमेव जलम् भवतरीतुमिव । पश्चिमार्णवतटं पश्चिमसमुद्रतीरं प्रति व्यलम्बत ॥ सवितापि संहृतिमियाय नियतदिवसातिलङ्घनः। हन्त किमु किल निषेकदिनं जगति व्यतिक्रमितुमक्षमो जनः ॥२३॥ सवितेति ॥ नियतदिवसातिलानो निश्चितदिनातिक्रमः सविता सूर्योऽपि संहति सं. हारम् श्याय गतवान् । हन्त कष्टम्, किल निश्चये, किमु अहो जगति लोके जनो निषे. कदिनं मरणदिनं व्यतिक्रमितुमुलरितुमक्षम इति किमाचर्यम् । यत्र सूर्योऽपि संहारं गतः तत्र प्राकृतस्य का कथेति भावः ॥ गतवत्यरौ तमनुमत्य परमपुरुषं महोदयैः । व्याप्य निशिततमसंप्लवगैः स्थितमर्जुनप्रकृति तत्र राजकम् ॥ २४ ।। गतेति ॥ तत्र रणे, राजकं सुग्रीवप्रभृति, अरौ रावणे गतवति सति, निशिततमस तीक्ष्मतिमिरं विनष्टचेतन ते परमपुरुष लक्ष्मणमनुमत्य ज्ञात्वा महोदयैः प्लवगैाप्य वेष्ट- यित्वा अर्जुनप्रकृति शुद्धप्रकृति यथा स्यात्तथा स्थितम् ॥ भारतीये-अर्जुनप्रकृति मध्य- मपाण्वप्रधानमसंप्लवगैः शिष्टवारयोगैमहोदयस्तनं व्याप्त, राजकम्, निशि तं परमपुरुष विष्णुम् अनुमत्य व्याप्य वेष्टयित्वा । न किलास्ति कोऽप्यवनिमानमवगत इतीरितोयमः । पादपरिगणनया भुवनं रविरेष मित्सुरिव दूरमत्यगात् ॥ २५ ॥ न किलेति ॥ एष रविः 'किल निश्चये कोऽपि भवनिमान न अवगतोऽस्ति' इति हेतोरीरितोद्यमः सन् पादगणनया भुवनं मित्सुरिव दूरं यथा स्यात्तथा अत्यगात् ॥ सहशोदयास्तमयवृत्तिरजनि तपनोऽनुरागतः। संपदियमिह विपञ्च परं परिवर्तते नहि महीयसः स्थितिः ॥ २६ ॥ सदृशविति ॥ तफ्नः सूर्योऽनुरागतोऽनुरागवशात् सहशोदयास्तमयवृत्तिः सदृशा तुल्या . उदयास्तमययोवृत्तिर्यस्य तादृग् अजनि । हि यतः-इह लोके इयं संपत विपञ्च परं प- रिवर्तते । महीयसः स्थितिन परिवर्तते । क्षतजप्रवाहनिवहस्य समरभुवि सर्पतो दिशः । रागपटलमधिरूदमिव धुतलानि सांध्यमरुणं बभौ महः ।। २७॥ क्षतजेति ॥ सांध्यं संध्याभवम् अरुणं रोहितं महः 'समरभुवि दिशः आशाः सर्पती Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९४&oldid=234664" इत्यस्माद् प्रतिप्राप्तम्