पृष्ठम्:Dvisandhanam kavya.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ सर्गः] द्विसंधानम् । गच्छतः, क्षतजप्रवाहनिवहस्य रक्तपूरसमूहस्य द्युतलानि गमनतलानि अधिरूट रागपट- लम् इव' बभौ शोभितम् ॥ ___ अथ वारुणीरुचिरभाजि न परममुनाम्बरस्थितिः । क्वापि रविरवपतन्भविता तदितीव तद्गतमगामि संध्यया ॥ २८ ॥ अथेति ॥ अथ संध्याप्रवेशानन्तरम् अमुना रविणा वारुणीरुचिः पश्चिमाशादीप्तिः परं केवलं न अभाजि सेविता । अम्बरस्थितिर्गगनस्थितिः । तथा रविः कापि अवपतन् भविता । अत्र लुप्तोपमा । यथा मद्यपेन वारुणीरुचिर्मदिराभिलाषः न अभाजि भन्मा। तथा अम्बरस्थितिर्वस्त्रस्थितिरभाजि ममा। तथा क्वापि अवपतन् भविता इति हेतोः तत्तदनन्तरं संध्यया तद्वतं सूर्यगमनम् अगामि इव ॥ परतस्तमांसि पुरतोऽस्य सवितुरभवन्महोद्यमः । दिग्विजयमधिकरोति किमु क्षुभितं हि पश्चिममचिन्तयन्प्रभुः ॥२९॥ परत इति ॥ अस्य सवितुः पुरतोऽमे महोद्यमोऽभवत् । परतः पश्चात् तमांसि अभ- वन् । युक्तमेतत् । हि यतः-उ अहो क्षुभितं पश्चिमम् अचिन्तयन् अवितर्कयन् प्रभु- दिग्विजयम् अधिकरोति किम् । अपि तु न॥ उपवन्यभूम्युपगिरं च दिवसमुपलाय वाहयत् । प्राप तिमिरमुरुमभ्युदयं किल कं न यापयति दुर्गयापना ॥ ३० ॥ उपेति ॥ तिमिरं तम उपवन्यभूमि कान्तारसमीपम् उपगिरं गिरिसमीपम् उपलाय लीनो भूत्वा दिवसं दिन वायत् अतिलकमानं सत् उरु गरिष्टम् अभ्युदयं प्राप । किल दुर्गयाफ्ना दुर्गमनिका के न यापयति अतिक्रामति ॥ धुमणौ प्रतापिनि गतेऽस्तममयचिरसंगमारामः । श्लिष्यदिव घनमशेषमभूत्प्रलयः प्रियो हि खरदण्डतोषिणः ॥ ३१ ॥ युमणाविति ॥ प्रतापिनि द्युमणौ सूर्येऽस्तंगते सति घनं तमोऽशेष श्लिष्यद् आलिङ्ग- दिवाभूत् । हि यतः खरदण्डतोषिणस्तीबदण्डतोषिणः कमलतोषिणः प्रलयः प्रियो भवति । तीबदण्डत्यात् ॥ निजदुःसुतं कुलमिवाशु गुरुगृहमिवायथोद्यतम् । राज्यमिव समुदितव्यसनं भुवनं परास्तमवबद्धतामसम् ॥ ३२॥ निजेति !! अवबद्धतामसं स्वीकृततमौविकारं भुवनं जगद् आशु शीघ्रं निजदुःसुतं निजो दुष्टः सुतो यत्र तत् कुलम् इव, अयथोद्यतमसदाचारं गुरुगृहम् इव, समुदितव्य- सनं संप्रातदुःखं राज्यम् इव परास्तं प्रक्षिप्तम् ॥ कृतमुच्छ्रितं तदनुदात्तमधरतरमुच्चमाहतम् । काप्यजनि न च विवेकमतिः कुनृपैकचेष्टितमिवाभवत्तमः ॥ ३३ ॥ २४ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९५&oldid=234712" इत्यस्माद् प्रतिप्राप्तम्