पृष्ठम्:Dvisandhanam kavya.pdf/१९३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१७ सर्गः द्विसंधानम् । १८३ विमुख इति ॥ स रावणो गुरु अनिवारं शक्तिशस्त्र शक्तिसंशशखं नियोजयन् सन् , तं लक्ष्मणम्, विमुखो विधिः फलमिव, खलः कृतमुपकारमिव, लोभो यश इव, मद उपशममिव, आशु शीघ्रम् अरुजत् तुतोद । भारतीये—स जरासंधः। तं नारायणम् । गुरुशक्ति गरिष्टसामर्थ्यम् । शस्त्रम् ॥ विवशोऽपि चित्रमवलोकमयमवगमं च नामुचत् । येन तिमिरमभितो ददृशे कमलोदरेण विविदे न वेदना ॥ १७ ॥ विवश इति ॥ येन कारणेन कमलोदरेण विष्णुना तिमिरम् अभितो ददृशे, वेदना न विविद । तेन विवशः परवशोऽपि सनयं नारायणो अवलोकं दृष्टिम् अवगमं ज्ञानं च नभमुचत् ॥ विधुतव्यथः क्षणमवाप युधि न किमु माधवोहितम् । दाशरथिरविरतः प्रहरनिलयं कुलस्य सहसाररक्षसः ॥ १८ ॥ विधुतेति ॥ उमाधवः कीर्तिप्रियो दाशरथी रामो विधुतव्यथस्त्यक्तपीडः सनविर. तोऽनिवृत्तः सन् सहसाररक्षसः सबलिछराक्षसस्य कुलस्य रावणस्य निलयं प्रहरन किम् अहित शत्रु युधि क्षणं न अवाप । अपि तु प्राप । अथवा रक्षसः कुलस्य निलयं सहसा आर ॥ भारतीये-दाशरथिरविर्दाशी घर्ती रथी सारथिर्यस्य ताग रविः सुविधानप्रका- शनाद । माधवो विष्णुः किमु हितं नावाप अवापैव । अतः कारणात् स प्रहरन् कुलस्य निलयं सहसा रक्ष॥ सहशौ बलेन समकालमधिकृतजयौ निजोद्धती । पुण्यदुरितनिचयाविव तौ व्यतिरेधतुर्नतु जवाघतीयतुः ॥ १९ ॥ सदृशाविति ॥ बलेन सदृशौ, समकालम् अधिकृतजयांवङ्गीकृतजयो निजोद्धती नि- जास्मीयोद्धतिर्ययोस्तौ तौ रामरावणी कृष्णजरासंधौ वा पुण्यदुरितनिचया इव व्यतिरेध. तुरन्योन्यं प्रहृतवन्तौ । नतु जवावेगाब्धतीयतुः । विरथश्विरेण विहितोऽपि विततधनुषामुना रिपुः । जातमिव बहुसुखं सुकृतं विविधं स मूलविभुजं व्यलङ्घयत् ॥ २०॥ विरथ इति ॥ विततधनुषा अमुना नारायणेन चिरेण बहुकालेन विरथो स्थरहितः विहितोऽपि स रिपुर्विविधं नानाप्रकारे बहुमुखं प्रचुरकारणं जातं समुत्पन्नं सुकृतमिव मूलविभुज स्थं व्यलक्ष्यत् ॥ अवलोकितुं हरिविघातमसह इव गन्तुमुद्यतः । संख्यरुधिरमवलोक्य चिरं स मदादपप्तदिव तीव्रगुः सदा ॥ २१ ॥ अवलोकितुमिति ॥ हरिविघातम् अवलोकितुम् असह इव गन्तुमुद्यतस्तीक्ष्णगुः सः सूर्यश्चिरं संख्यरुधिरम् अवलोक्य सदा मदाद्वापप्तत् ।। Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९३&oldid=234663" इत्यस्माद् प्रतिप्राप्तम्