पृष्ठम्:Dvisandhanam kavya.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ काव्यमाला। न्धनमयी मेघशरीरमयी संवृतिः कस्य । भानुमतः सूर्यस्येव । रुचि न हन्ति इति हेतोः इह सङ्कामे (स नारायणः कवचम्) न अमवीर बभ्राति स्म ॥ उदयाद्विभूतिरिव भोगगतिरिव नयाप्रसादतः । सर्वधृतिरिव परं पुरुषं जयदेवता गणतिथावृत स्वयम् ॥ ११ ॥ उदयादिति ॥ गणतिथा गणपूरणा जयदेवता जयश्रीः स्वयमात्मना परं पुरुषं पुरुषोत्तम लक्ष्मणं विष्णुम् 'उदयात् विभूतिरिव, नया भोगगतिविभूतिविषया प्रवृत्तिरिव, प्रसा- दत्तो नयविषयप्रसन्नतायाः सर्वधृतिः समस्तसंतोष इव, अवृत घृतवती ॥. ध्वजमारुरोह गरुडोऽस्य रणमिव दिक्षुरुच्चकैः । ध्मातुमिव कुपितवनिमयं हृदि पाञ्चजन्यमुदपूरि वैरिणः ॥१२॥ ध्वजमिति ॥ गरुडो रणं दिक्षुरिव, अस्य नारायणस्योचकैरुचतरं ध्वजम् आरु- रोह । तथा अयं नारायणो वैरिणो हदि कुपितवहिं ध्मातुमिव पाश्चजन्यम् उदपूरि ॥ निनदेन तस्य मिहिरस्य शरम इव संमुखं रिपुः । प्राप्य कणयनिकरण रथं परतो युगद्वयसमम्यदुद्रुवत् ॥ १३ ॥ निनदेनेति ॥ रिपू रावणो जरासंघच तस्य पाश्चजन्यस्य 'शरभो मिहिरस्य मेघस्येव' निनदेन ध्वनिना संमुखं प्राप्य कणयनिकरण बाणसमूहेन रथं युगद्वयसम् । प्रमाणे द्वयसच्'। परतः पश्चादभ्यदुद्रुवदपसारितवान् ॥ खरुषा सहोच्छुसितसूतगतिरथ हरिश्च कम्पनैः। तस्य भुजमिव सदाशरथी रणशान्तिमिच्छरिव केतुमच्छिदत् ॥१४॥ स्वरुषेति ॥ अथ स्वरुषा निजकोपेन सह उच्छसितसूतगतिरुच्छसिता सूतस्स सा- रथेगेतिर्येन, सदाशरथी रामो हरिर्लक्ष्मणश्च रणशान्तिमिच्छरिव तस्य रावणस्य के ध्वजम् ‘भुजमिव कम्पनर्वाणैराच्छिदत् ॥ भारतीये-उच्छुसितसूतगतिरुच्छसितभट- गतिः, सदाशरथी सती समीचीना आशा वाञ्छायेषां ते रथिनो यस्य स हरिनारायणः । चोऽवधारणे क्रियान्वयी ॥ धवलातपत्रमपि तस्य हतमपतदिन्दुमण्डलम् । द्रष्टुमुपगतमिवाजिमतः परुषं रिपुः प्रतिजगर्न तर्जयन् ॥ १५ ॥ धवलेति ॥ (तेन हरिणा) तस्य रिपोर्घवलातपत्रं श्वेतच्छन्नमपि । आजि सङ्कामं द्रष्टु- मुपगतमिन्दुमण्डलं चन्द्रबिम्बमिव । हतम् । अतः कारणाद् रिपुः परुष तर्जयन् सन् प्रतिजगर्न । विमुखः फलं विधिरिवाशु खल इव कृतं स तं यशः । लोभ इव मद इवोपशम गुरुशकिशस्त्रमरुजन्नियोजयन् ॥ १६ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९२&oldid=234662" इत्यस्माद् प्रतिप्राप्तम्