पृष्ठम्:Dvisandhanam kavya.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ सर्गः] द्विसंधानम्। रूपा अशक्ता, कुपितं हेतिरूपता शमरूपता वहिवालारूपता या यातमिव, निशितलं ज्वलनात्मतां गतम् इव, अभूत् ॥ स रुषायुधं विषमिवाहिरशनिमिक तोयदोऽसृजत् । क्षौद्रपटलपतितैरिव तच्छरथैः शिरखनिवहैर्मही बमौ ॥५॥ साइति ॥ सरुषा क्रोधेन आयुषं शलजातम् । अहिः सो विषमिव, तोयदो अशानि- मिव, असजत् । तत्तस्मात मही शिरबनिवहैः क्षौद्रपटलपतितर्मधुच्छाच्युतः शरधैर्मधु- मक्षिकाभिरिव, पभो॥ दहनास्त्रपाणिरपमूर्ध विदधदरिसैन्यमाजनुः । वेद न भयरसमित्यशिरः पुरतः स दिव्यमधृतेव नाकिनाम् ॥॥ रहनेति ॥ स रहमालपाणिः सन्, भपमूर्धमपगसमस्तकम् भरिसैन्यं विदभव सन्, आजनुराजन्म भयरसम् म वेद वेधि इति अधिरः न शिरः प्रधानं यस्मात्ताध दिव्यं दिवि भवं स्वशरीरं नाकिना पुरतः अघृत इव ॥ अनुजं तु मृत्युमिव हन्तुममुमभिजिहानमारुषत् । तीव्रमन्धतमसमभ्युदयै स्थवाहनेन सवितेव केशवः ॥ ७ ॥ • अनुजमिति ॥ केशवो लक्ष्मणस्तीनं सोढुमशक्यम्, इन्तुमिवाभ्युदयैर्गजवाज्यादिलक्षम. विभूतिभिरभिजिहान संमुखमायान्तं मृत्युमिव अमुं रावणं तु पुमानुज कुम्भकर्ण रषया. हनेन स्थाश्वेन । सविता सूर्योऽभ्युदयैः किरणसंदोहलक्षणविभूतिभी रथवाहनेमान्ध. तमसमिव, आरुषत् ॥ भारतीये केशवो नारायणः । अ# जरासंघम् ॥ चिरमेष चेतसि निरुद्धमुदितमिव मन्त्रमग्रतः। प्रेतपतितनृपकोपचयं निचितं पुनः परिभवादिवेक्षत ॥८॥ चिरमिति ॥ एष नारायणः पुनक्षेतसि चिरं निरुवं मनमिव अप्रत उदितमरि परिभवात् निचितं संभूत प्रेतपतितनृपकोपचयं प्रेतानां पतितानां भूपाणां कोपस्य चय. मिव । ऐक्षत॥ प्रियसंगमाप्रथमसङ्गमरिकृतमबोधि सोऽधिकम् । वृन्दमलघु सुहृदो महतां द्विषता हि कीर्तिरतुला तु जायते ॥९॥ प्रियेति ॥ सोऽरिकृतं प्रथमसर प्रियसंगमादधिकमपोषि । हि यतो महतां स. पुरुषाणां सुहृदो मित्रीय वृन्दम् अलघु भवति, तथापि द्विषता कीर्तिरतुला जायते ॥ निजपौरुषं हि पुरुषस्य कवचमिह कस्य संवृतिः। भानुमत इव न हन्ति रुचिं धनदेहबन्धनमयीति नामवीत् ॥ १०॥ निजेति ॥ निज़पौरुषमेव पुरुषस्य कवचं स्यात् । घनदेहबन्धनमयी भत्यन्तशरीरब. Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९१&oldid=234661" इत्यस्माद् प्रतिप्राप्तम्