पृष्ठम्:Dvisandhanam kavya.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० काव्यमाला। वाराङ्गनेति तदा वाराङ्गना ननूतुः, पताका उत्पतिसा उच्छ्रिताः, वीव्रतकभूतिः तीव्रता- यामेका धृतिर्यस्य स उज्ज्वलदृश्यसेव्य उज्ज्वलद्भिश्यैर्मुगविशेषैः सेव्यो जयचिताश्ववलो जयेन चितमश्वानां बलं येन जयचितमश्वबलं यस्य वा स लक्ष्मीधरो लक्ष्मणो महधि महती ऋद्धिर्यत्र तां महतीमृद्धिमेव वा कु पृथ्वीम् आप प्राप निलयं गृह विवेश ॥ भारतीये- प्रतैकपतिव्रत एवैका धृतिर्यस्या सा कुन्ती महधिम् आप । सश्रीधनंजयचिताश्वबलः श्रियोपळक्षितेन धनंजयेनार्जुनेन चिता अश्वा येन तादृशा पलेन बलभद्रेण च सहित उज्ज्वलश्यसेव्य उज्ज्वलतया दृश्यः सेव्यश्च लक्ष्मीधरो नारायणः ॥ इति धनंजयकविविरचिते धनंजयाके राघवपाण्डवीयापरनानि द्विसंधामकाव्ये सङ्कामव्यावर्णनो नाम षोडशः सर्गः । सप्तदशः सर्गः। अथ संयुगं सुतरसाप्तयुगमरिरपश्चिमो हरेः । कालमिव समधिरुह्य रयं तमकालचक्रगतिचक्रमाविशत् ॥ १॥ भयेति ॥ अथ हरेरपत्रिमः आयो हरेररिः शत्रू रावणो जरासंधश्च । सुतरसाप्तयुगं सुतैरिन्द्रजिदादिभिः पुत्रै रसेन मेहेन आतं युगं धुरा यस्य तं, सुतरं मनोवेर्ग साप्तमा युगं यस्य तम् । अकालचक्रगतिचक्रम् अकालचक्रस्य प्रलयकालस्येव मतिः प्रवृत्तिर्य- योस्तै चक्रे यस्य तं, स्थम् । कालं मृत्युम् इव । अधिरुय संयुगं युद्धम् आविशत् । उद्तावृत्तम् ॥ अशिरः शवं शरणमेष विशति कवचं विभर्ति यः। प्राणविनिमयमयं हि यशः सुलभं भवेदिति स वर्म नाददे ॥ २ ॥ अशिर इति ॥ स शत्रुः यः कवचं बिभर्ति, एषोऽशिरः शव शरणं विशति । यशः प्राणविनिमयमयं प्राणविक्रयनिर्वृतं हि एव सुलभं भवेत् इति हेतोः वर्म संनाहं न आददे। तमधूममग्निमिव दृष्टिविषमिव विमुक्तकचुकम् । नागमिव विगतवकपटं बलवर्जितं ददृशुरूर्जितं सुराः॥३॥ तमेति ॥ सुरा बलवर्जितं सैन्यरहितमूर्जितं प्रौढं तमरिम्, अधूममग्निमिव, विमुक्तक- शुकमपास्तनिर्मोकं दृष्टिविर्ष सर्पविशेषमिव, विगतवकपटमपाकृतवदनाच्छादनं नागं गज- भिव, दशः॥ तनुरक्षमा परिणतेव कुपितमपि हेतिरूपताम् । यातमिव निशितशस्त्रमपि ज्वलनात्मतां गतमिवास्य चक्रिणः ॥ ४॥ तनुरिति ॥ अस्य चक्रिणः । तनुः शरीरम्, परिणता वृद्धवनिता इव, अक्षमा क्रोध- Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९०&oldid=234660" इत्यस्माद् प्रतिप्राप्तम्