पृष्ठम्:Dvisandhanam kavya.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ सर्गः] द्विसंधानम् । विसारिभिः नानकषायभूषितैर्बिभीषितेव प्रियगात्रमङ्गना। शुचौ समालिङ्गति यत्र सारवे हूदे तरन्ती कलहंससंकुले ॥ १२॥ विसारीति ॥ यत्र नगर्यो शुचौ ग्रीष्मे, कलहंससंकुले, सारवे सरयूभवे, सदे, तरन्ती अङ्गना, मानकषायभूषितैः मानार्थे कषायैः कुकमादिभिर्भूषितैः, विसारिभिर्मत्स्यैर्षिभीषिता भयं नीतेव सती प्रियगात्रं समालिङ्गति ॥ भारतीयपक्षे--सारवे सस्वने । उत्प्रेक्षा ॥ अरान्घटीयत्रगतान्गतश्रमः पयःकणैरअपदेन पीडयन् । स यत्र कच्छी सतनुः सुरालयं प्रयुज्य निःश्रेणिमिवारुरुक्षति ॥१३॥ अरानिति ।। यत्र नगर्यो पयःकणैरुदबिन्दुभिः गतश्रमो विगतखेदः स कच्छी मा- लाकारः अग्रपदेन अग्रचरणेन घटीयन्त्रगताअलपात्राश्रितान्, अरान्काष्ठकीलकान्, पीडयन् कदर्थयन् सन् , निःश्रेणि, प्रयुज्य संवध्य, सतनुः सशरीरः सुगलयं स्वर्गम्, आरुरुक्षतीव आरोढुमिच्छतीव । उत्प्रेक्षा ॥ उदर्कसंक्लेशभरं स्वयं वहत्परस्य संतापहरं फलप्रदम् । युतं विजात्यापि विलङ्घय सज्जनं विभाति यत्रोपवनं समन्ततः॥१४॥ उदर्केति ॥ यत्र, समन्ततः सामस्त्येन, उदादूर्ध्वस्थितार्कात्संक्लेशभर संतापभा- रम, स्वयं वहत्, परस्य जनस्य संतापहरं फलप्रदम्, सज्जनं विलक्ष अतिक्रम्य वीनां जात्या युतम् उपवनं विभाति । अर्थवशाद्विभक्तिविपरिणामेन-उदर्के उत्तरफले संके- शभरं स्वयं वहन, परस्य संतापहारकः फलप्रदः, 'मातृपक्षो भवेज्जातिः पितृपक्षः कुलं भवेत्' इत्युक्तेविशिष्टया लाञ्छनरहितया जात्या मातपक्षेण युत उपवनमतिक्रम्य सज्जनोऽपि विभाति । सज्जनातिकामी विशिष्टजातियुतः कथमिति विरोधः। परि- हारस्तूतः । विरोधालंकारः ॥ दशां दधानाः खलु गन्धधारिणी महाद्रुमस्कन्धनिबद्धकंधराः। खबन्धवैरोद्धटयेव सिन्धुराः शिरांसि यस्यां धुनतेऽरुणेक्षणाः ॥१५॥ दशामिति ॥ यस्यां खलु निश्चयेन गन्धधारिणीसंज्ञितां दशामवस्था दधानाः, म- हाद्रुमाणां स्कन्धेषु निषद्धा यन्त्रिता कंधरा ग्रीवा येषां ते, अरुणेक्षणा लोहितलोचनाः, सिन्धुरा हस्तिनः स्ववन्धेन वैरमुद्धाटयितुकामा इव शिरसि धुनते । उक्तं च-'संजा- ततिलका पूर्वा द्वितीयार्धकपोलिका । तृतीयार्धनिबद्धा तु चतुर्थी गन्धधारिणी ॥ पश्चमी क्रोधिनी ज्ञेया षष्ठी चैव प्रवर्तिका । संप्रभिन्नकपोलाथ सप्तमी सार्वकालिका ॥' इति 1 उत्प्रेक्षा ॥ कुशासनोदीरितचेतसश्चला मनोजवामेघपथेऽतिवर्तिनः । प्रसह्य नीता गुरुभिर्महापथं नरोऽतिदाम्यन्त्यपि यत्र वाजिनः ॥१६॥ कशेति ॥ यत्र कुशासनैः कुशिक्षादायिभिरुदीरितमुदीर्णमुद्धूलितं चेतो हृदयं येषां Doganced bGoogle Digitized by

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५&oldid=234461" इत्यस्माद् प्रतिप्राप्तम्